________________
प्रथमः सर्गः ]
१९
to whom oblations consisting of fresh Kutaja flowers were offered by the Siddhas, bent down owing to devotion at the time of his giving up this worldly life for getting initiated into monkhood, began to reproach him again in a way as described before.
पर्जन्यानां ध्वनिमनु सकः स्फावयन् सिंहनादान् आक्रोशैः स्वैर्मुनिपरिसरात् तर्जयन्नाशदैत्यः । हा धिङ्मूढं भगवति मुनौ पूर्वबन्धौ न चोच्चैः
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १६ ॥ अन्वयः - - सकः नाशदैत्यः पर्जन्यानां ध्वनिं अनु. सिंहनादान् स्फावयन् मुनिपरिसरात् स्वैः आक्रोशैः तर्जयन् पूर्वत्रन्धौ भगवति मुनौ उच्चैः प्रीतः सन् प्रीतिप्रमुखवचनं स्वागतं न व्याजहार (इति) मूढं हा धिक् ।
,
,
पर्जन्येत्यादि । सकः । कुत्सितः सः सकः । ' कुत्सिताज्ञातालपे' इति कुत्सायां कन् । नाशदैत्यः । नाशप्रियः दैत्यः नाशदैत्यः । शाकपार्थिवादित्वात्सः । पर्जन्यानां गर्जतां मेघानां । ' पर्जन्यौ रसदब्देन्द्रौ ' इत्यमरः । ध्वनिमनु ध्वनिना सह । गर्जितेन सहेत्यर्थः । 'भार्थेऽनुना ' इति सहार्थस्यानुशब्दस्य कर्मप्रवचनीयस्य प्रयोगे ध्वनिमिति इप् । सिंहनादान् । सिंहस्य नादाः इव नादाः सिंहनादाः । तान् । ‘देवपथादिभ्यः ' इतीवार्थस्य कस्योस् । स्फावयन् वृद्धिं नयन् । ' स्फायी वृद्धौ ' इति धातोः ण्यर्थे ' स्फायो वः ' इति वादेशः । मुनिपरिसरात् । मुनेः परिसरः समीपप्रदेशः मुनिपरिसरः । तस्मात् । ' पर्यन्तभूः परिसरः इत्यमरः । मुनिपरिसरे स्थित्वेत्यर्थः । ' प्यखे कर्माधारे ' इति प्यखे का । स्वैः स्वकीयैः । आक्रोशैः शपनध्वनिभिः तर्जयन् भर्त्सयन् । पूर्वबन्धौ पूर्वभवकनीयों भ्रातरि । भगवति मुनौ माहात्म्यति योगिनि । भगः माहात्म्यं अस्यास्तीति भगवान् । तस्मिन् । वैराग्यवति योगिनि वा । ' भगं तु ज्ञानयोगीच्छायशेोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्न - भानुषु' इति विश्वलोचने । उचैः प्रीतः । अत्यर्थ प्रीतः सन्तुष्टः उच्चैः प्रीतः । सन् । प्रीतिप्रमुखवचनं । प्रीतिः प्रमुखा यस्मिंस्तत् प्रीतिप्रमुखं । प्रीतिप्रमुखं वचनं यस्मिन् तत् प्रीतिप्रमुखवचनं । स्वागतं न व्याजहार । स्वागतवचनं नोचिवान् । व्याङ्पूर्वस्य हृञः लिट् । हेत्यनेन दुःख व्यनक्ति । विषादेsपि दुःखेऽपि शोके ' इति विश्वलोचने । धिङ्मूर्ख। ‘निर्भर्त्सनेऽपि निन्दायां धिक्' इति विश्वलोचने। ' हान्तरान्तरेणातिधिक्स • मानिकपोपाधिश्च' इति इप् ।
<
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org