________________
१८
[पार्धाभ्युदये
good deal of welfare of His soul, falsely bringing about his connection with the darkest of clouds, suddenly poured out showers of rain.
एवंप्रायां निकृतिमधमः कर्तुमारब्ध भूयो ____ मायाशीलाश्चरपरिचिताद्वैरबन्धात् प्रकुप्यन् । सिध्दैस्तनिष्क्रमणसमये योगिने भक्तिनः ____सप्रेत्यप्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै ॥ १५ ॥
अन्वयः- तन्निष्क्रमणसमये भक्तिननैः सिद्धैः प्रत्यौः कुटजकुसुमैः कल्पितार्घाय तस्मै योगिने चिरपरिचितात् वैरबन्धात् प्रकुप्यन् सः मायाशीलः अधमः एवंप्रायां निकृति कर्तु भूयः आरब्ध ।
एवंप्रायामित्यादि । तनिष्क्रमणसमये। तस्य भगवतः निष्क्रमणसमये । यदा भगवान् संसार परित्यज्य दीक्षायै निश्चक्राम तदेत्यर्थः । भाक्तिनः । भक्त्या ननैः विनतैः । ' नम्कम्पिस्म्यजस्कहिंसदीपो रः' इति शीलार्थे रः। गुणानुरागेण नमनशीलैरित्यर्थः । सिद्धैः देवविशेषैः । 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ' इत्यमरः । 'सिद्धस्तु नित्ये निष्पन्ने प्रसिद्ध देवयोनिषु' इति विश्वलोचने । प्रत्यप्रैः नवैः । सरसरित्यर्थः । 'प्रत्यग्रोऽभिनवो नव्यः इत्यमरः । कुटजकुसुमैः कुटजानां गिरिमालिकानां कुसुमैः पुष्पैः । 'कुटजो गिरिमल्लिका' इति हलायुधः। कल्पिताय । कल्पितः अनुष्ठितः समर्पितः अर्धः उदकाष्टविधद्रव्यमयः यस्मै । तस्मै। तस्मै योगिने योगनिमग्नाय मुनीन्द्राय । चिरपरिचितात्। चिर अभ्यस्तात् वैरबन्धात् शात्रवानुबन्धात् प्रकुप्यन् प्रकःण कुप्यन् । 'क्रुधदुहेासूयार्थानां यं प्रतिकोपः ' इत्यप् । मायाशीलः माया कपटं शीलं स्वभावः यस्य सः। अधमः नीचः । 'अधमौ न्यूनकुत्सितौ' इत्यमरः । 'अधमः कुत्सिते न्यूने' इति विश्वलोचने । 'अन्तोऽवोऽधसो म:' इत्यधसः सकारस्य मकारः । 'अवोऽधसोः स खं चेति वक्तव्यम् ' इति सस्य खे कृते। सति मस्त्यः। एवंप्रायां एवं प्रकारां उक्त प्रकारां । पूर्वोक्तश्लोकवर्णितप्रकारेणेत्यर्थः । निकृति परिभवं कर्तुं विधातुं आरब्ध आरब्धवान् । 'रभ राभस्ये' इत्यस्माद्धो डिरूपम् ।
That fraudulent wretch, getting very angry on account of the enmity borne in mind by him for a long time with Hin, the mendicant,
१ सम्प्रत्यौः . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org