SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] विद्युन्मालेत्यादि । विद्युन्मालास्फुरितरुचिरे । विद्युतां सौदामिनीनां माला परम्परा विद्युन्माला । 'आकालिकी क्षणचिर्विद्युत्तत्पतिरम्बुदः' इति धनञ्जयः। तस्याः स्फुरितानि स्फुरणानि । 'भावेक्तोऽभ्यादिभ्यः ' इति क्तः । तैः रुचिरे दीप्तिमति । 'सुन्दर रुचिरं चारु सुषमं साधु शोभनम् ' इत्यमरः। रुचिं कान्ति राति इति रुचिरं । स्फूर्जद्वने । स्फूर्जन निर्घोषं कुर्वन् वज्रः यस्मिन् स्फूर्जद्वज्रं । तस्मिन् । 'वज्रोऽस्त्री हीरके पवौ' इत्यमरः । मेघजाते। मेघानां जातं समूहः मेघजातं । तस्मिन् । ' जातं जन्मौघजन्तुषु इति विश्वलोचने । नताशे। नताः व्याप्ताः आशाः दिशः येन । तस्मिन् सति। : आशा तृष्णदिशोः' इति विश्वलोचने । जीमसेन मेघेन । जीवनस्य मूत: बन्धः जीमूतो मेघः । पृषोदरादित्वात्सः । 'जीमूतोऽभ्रं बलाहकः' इति धनञ्जयः। मेघद्वारेणेत्यर्थः । स्वकुलशमयीं । स्वस्य आत्मनः कुशलं क्षेमं कल्याणं स्वकुशलं । 'कुशलं धर्मपर्याप्तिक्षेमेषु त्रिषु शिक्षिते' इति विश्वलोचने। स्वकुशलाद्धेतोरागता स्वकुशलमयी । तां । 'मयट्' इति हेतुवाचिनः आगते अर्थे मयट् ! यद्वा स्वकुशलं प्रकृतं प्रचुरं अस्यामिति स्वकुशलमयी। तां । 'अस्मिन् ' इति ईबर्थे प्राचुर्ये मयट् । टित्वात् ङी। 'तत्प्रकृतोक्तो वा मयट् इति वा मयट् । प्रवृत्ति प्रयत्न व्यापार वा। तं मुनिपस्य स्वर्गगामिनमात्मानं । हारयिष्यन् । हारयितुं त्याजयितुमिच्छन् । 'स्यतासी लल्वोः । इति स्यस्त्यः । 'वलादेरिट ' इतीडागमः 'हको' इति कर्मसज्ञाया वैकल्पिकत्वात पक्षे कर्तरि तृतीया । तं मुनिपं । जलभृतां मेघानां कालेन कृष्णवर्णेन । मेघेनेति शेष: ' यतश्च निर्धारणं' (पा.) इति षष्ठी । योगिनं सम्बन्धिनं । 'योगः सन्नहनोपायथ्यानसङ्गतियुक्तिषु' इत्यमरः । वितन्वन् कुर्वन् असौ कमठः सः कमठः। सः कमठचरो देवः इत्यर्थः । झटिति शीघ्रं । वृष्टिपातं ससर्ज सृजति स्म । किल अलीके । यद्वा स्वकुशलमयी स्वक्षेमविषयिणी प्रवृत्ति सन्देशं तं मुनिपं हारयिष्यन् नाययिष्यन् । 'नीवह्योईरतेश्चैव ' इति वचनात् द्विकर्मकोऽयं धातुः । तं तपस्विनं जलभृतां कालेन जीमूतेन योगिनं वितन्वन् असो कमठः झटिति वृष्टिपातं ससर्ज । अत्र पूर्वोक्तोऽर्थः' 'पश्चाच्चैनं प्रचलितधृति ही हनिष्यामि चित्रं' इति वाक्याभिप्रायानुसारेण समीचीन एवेति प्रतिभाति । ध्यानावस्थायाः भगवन्तं प्रचाल्य तं जिघांसन् कमठः वृष्टिपातं ससति भावः। At the time when an assemblage of clouds, shining very brilliantly on account of the successive flashes of lightnings, having the thunderbolt bursting forth in them, had extended over all the quarters that Kamatha, wishing to make Him abandon the continued efforts bringing about a पाश्चाभ्युदये...२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy