________________
[ पार्श्वभ्युदये
आलम्बनमुपायः दयिताजीवितालम्बनं । तदर्थयते इति दयिताजीवितालम्बनार्थी । स्वस्माद्वियुक्तायाः दयितायाः सन्देशाभावे प्रियविप्रयोगजनितदुःखायाः मरणाद्विभ्यन्नसौ मुनिपं युद्धे हत्वा तदात्मानं सन्देशं हारयित्वा ता जिजीविषतीत्यर्थः । नोमनाक् अत्यर्थ असूरिः अपण्डितः । मूर्खः इत्यर्थः । अपि गर्दायामत्र । ' गर्दासमुच्चयप्रश्नशङ्कासम्भावनास्वपि' इत्यमरः । प्रत्यासन्ने समीपमागते। नभसि श्रावणमासे । 'नभः खं श्रावणो नभाः' इत्यमरः । न भासनं मेघच्छन्नत्वात् अस्त्यस्य नभाः। 'समीपे निकटासन्नसन्निकृष्टसनीडवत्' इत्यमरः । मुनिपं अभितः मुनीश्वरं सर्वतः । 'पर्यभिसर्वोभयैस्तस्त्यैः' इति इप् । सरभसं पौर्वापर्याविचारेण क्रोधेन वा। रभसेन पौर्वापर्याविचारेण सह वर्तते यस्मिन् कणि यथा तथा भीमजीमूतमायां । मायां इन्द्रजालं। जीमूतस्य माया जीमूतमाया। भीमा भयकृत् चासौ जीमूतमाया च । भीमजीमूतमाया। तां । जीवनस्य जलस्य मूतः बन्धः जीमूतः। मेघः इत्यर्थः पृषोदरादित्वात्साधुः । 'तोयं जीवनमाविषम् ' इति 'जीमूतोऽभ्रं बलाहकः ' इति च धनञ्जयः। साक् झटिति । 'साग्झटित्यञ्जसानाय द्राङ्मक्षु सपदि द्रुते' इत्यमरः । अनाक्षीत् । सृजति स्म । 'सृज विसर्गे' इत्यस्माद्धोलुङ् ।
Having said that in that way, he, who approached Him again ( to attack him ), who decided to trouble Him himself, who was angry (with Him), who was desirous of finding out a means of his destruction who had entertained sympathy for him (i. e. Kamatha, in his former birth), who was extremely foolish, created passionately an illusion of terrible clouds on all sides of the lord of sages at a time when the montiu of Shravana was about to set in.
विद्युन्मालास्फुरितरुचिरे मेघजाते नताशे
स्फूर्जद्वजे झटिति कमठो वृष्टिपातं ससर्ज । काळेनाऽसौ किल जलभृतां योगिनं तं वितन्वन्
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥ १४ ॥
अन्वयः- विद्युन्मालास्फुरितरुचिरे स्फूर्जद्वने मेघजाते नताशे सति जीमूतेन स्वकुशलमयी प्रवृत्ति हारयिष्यन् तं जलभृतां कालेन किल योगिनं वितन्वन् असौ कमठः झटिति वृष्टिपातं ससर्ज ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org