________________
प्रथमः सर्गः ]
निरुणद्धि, अपि तु तयाजेन कञ्चन कण्ठाश्लेषप्रणयिनं जनमेष ध्यायतीति कमठाभिप्रायः।
___He, thinking thus, expert in uttering cruel words, asked the lord of sages Oh ascetic! you, confining your mind within yourself, tell : Are you concentrating your mind upon the liberated soul who has destroyed Jis tormenting Karmans or are you concentrating it upon a person, staying abroad anıl desirous of embracing your neck ?'
इत्युक्त्वाऽदो मुहुरुपवहन् निश्चितात्मोपसर्गो
बद्धक्रोधः सरभसमसौ भीमजीमूतमायां । स्रागसाक्षीन्मुनिपमभितो नोमनागप्यसूरिः __प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी ॥ १३ ॥
अन्वयः- इति अदः उक्त्वा मुहुः उपवहन् असौ निश्चितात्मोपसर्गः बद्धक्रोधः दयिताजीवितालम्बनार्थी नोमनाक् अपि असूरिः असौ प्रत्यासन्ने नभसि मुनिपं अभितः सरभसं भीमजीमूतमायां लाक् अनाक्षीत् ।
इत्युक्त्वेत्यादि । इति उक्तप्रकारेण । ' इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात् समाप्तौ च निदर्शने' इति विश्वलोचने। अदः तत् । उक्त्वा प्रोच्य । मुहुः बहुवारान् । उपवहन् समीपं गच्छन्, युद्धार्थ सन्नद्धो भवन् , अभिभवनाथ भगवतः समीपं पुनः पुनः गच्छन् वा। असौ कमठचरः यक्षः । निश्चितात्मोपसर्गः। आत्मनः आत्मना कृतः उपसर्गः उपप्लवः आत्मोपसर्गः। निश्चितः आत्मोपसर्गः येन सः । ' उपसर्गः स्मृतो रोगभेदे चोपप्लवेऽपि च ' इति विश्वलोचने । बद्धक्रोधः । बद्धः क्रोधः कोपः येन सः । दयिताजीवितालम्बनार्थी। दयितस्य सजातदयस्थ अजीवितं मरणं, तस्य आलम्बनं उपायः दयिताजीवितालम्बनं । तत् अर्थयते इति दयिताजीवितालम्बनार्थी । सञ्जाता दया अस्येति दयितः । 'तदस्य सजातं तारकादिभ्यः इतच ' इति तदस्य सजातमित्यर्थे इतच् । पूर्वस्मिन् भवे स्वभ्रातृभार्यागामित्वात् क्रुद्धेन राज्ञा निर्घाटितस्याऽयं मरुभूतिचरः भगवान् दयते स्म । न जीवितं अजीवितं । मरणमित्यर्थः । दयमानमप्यमुं भगवन्तं अयं कमठचरो दैत्यः जिघांसुरिति तस्य कृतघ्नत्वं व्यज्यते । यद्वा दयितायाः स्वप्रियायाः जीवितस्य
(१) मनास (२) दयिताजीवितालम्बनार्थाम् ; दयिताजीवितालम्बनार्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org