________________
१४
[ पार्श्वाभ्युदये
(or whose equilibrium of mind is disturbed), to death in a wonderful
manner.
व्यायनेवं मुनिपममणी निष्ठुराला पशौण्डो
भो भो भिक्षो भणतु स भवान् स्वान्तमन्तर्निरुन्धन् । क्षीण क्लेशे सिषिधुषि मतिं किं निधत्तेऽङ्गितचे । कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १२॥
एवं ध्यायन् निष्ठुरालापशौण्डः मुनिपं अभणीत् - भो भो भिक्षो ! स्वान्तमन्तर्निरुन्धन् सः भवान् भणतु । किं क्षीण सिषिधुषि अङ्गितत्त्वे मतिं निधत्ते, किं पुनः दूरसंस्थे कण्ठाश्लेषप्रणयिनि जने ( मतिं निधत्ते ) ?
.C
अन्वयः -
3
ध्यायन्नि यादि । एवं उक्तप्रकारेण ध्यायन् चिन्तयन् । निष्ठुराला पशौण्डः । निष्ठुरः निर्दयश्चासावालापों भाषणं च निष्ठुरालापः | यसः । निष्ठुरालापे शौण्डः प्रवीणः निष्ठुरालापशौण्डः । ईशौण्डादिभिः इतीप्पसः । मुनिपं मुनिराजं अभणीत् प्रोवाच । भो भो भिक्षो ! हे मुने ! स्वान्तं मनः अन्तः अन्तरात्मनि निरुन्धन् प्रत्यवस्थापयन्। सः प्रसिद्धः । ध्यानित्वेन प्रसिद्धः इत्यर्थः । भवान् । भणतु कथयतु । किं भवान् क्षीणक्लेशे । क्षीणाः विप्रमुक्ताः विनष्टाः क्लेशाः क्लेशकराणि कर्माणि यस्य सः । तस्मिन् । क्षीणाः विनाशं प्राप्ताः । ' तेऽण्ये ' इति कृतदीत्वात् क्षेस्ततकारस्य नः । ये नोणोऽभिन्ने' इति नस्य णः । क्षीणकर्मणीत्यर्थः । सिषिधुषि सिद्धावस्थां प्राप्ते ।
6
८
पिधु संराद्धौ ' इत्यस्माद्धोः परस्य लिटः स्थाने 'लिटः क्कसुकानौ ' इति वसुः । वसोर्वस्योश् ' इति भस्य वसोर्वकारस्योश् । 'क्वस्यैकाज्घसः' इति धोरेकाच्त्वात् कसौ परे इडागमः । अङ्गितत्त्वे जीवद्रव्ये । अङ्गमस्यास्तीत्यङ्गी । स एव तत्त्वं द्रव्यं । तस्मिन् । मतिं मनः । निघते ? प्रत्यवस्थापयति ? पुनः अथवा दूरसंस्थे दूरदेशवर्तिनि । दूरे संस्था स्थितिर्यस्य सः । तस्मिन् । 'संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ । संस्था ऋतौ समाप्तौ च चरे च निजराष्ट्रगे' इति विश्वलोचने । कण्ठाश्लेषप्रणयिनि जने । कण्ठाश्लेषं प्रणयति इत्येवंशीलं अस्य कण्ठाश्लेषप्रणयि । तस्मिन् । 'शीलेऽजातौ णिन् ' इति शीलार्थे णिन् । अत्रोपसर्गेऽणिन् कुसुमानुकारिभिः उपजीविभिरित्यादिवत् । उपसर्गभिन्न एव सुपि णिनिरिति वृत्तिकारहरदत्तमाधवादयः । तच्च भाष्यविरोधि । किं ? मर्ति निधत्ते इति शेषः । भगवद्गर्हणाभिप्रायेण कमठः पर्यनुयुनक्ति । नायं ध्यानैकतानः मुनिः शुद्धात्मरूपे एकस्मिन्नये ध्यानविषये मनो
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org