SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] पश्वाच्चैनं प्रचलितधृति ही हनिष्यामि चित्रं मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः ॥ ११ ॥ अन्वयः- ( यतः ) मेघालोके सुखिनः अपि चेतः अन्यथावृत्तिं भवति (ततः) तावत् निकुर्वन् (अहं ) स्तनितमुखरैः विद्युद्द्योतहासैः द्विरदसदृशैः मेघैः अस्य चित्तक्षोभान कुर्वे, पश्चात् च प्रचलितधृति एनं हि चित्रं हनिष्यामि । . मेधैरित्यादि । (यतः यस्मात् कारणात् ) मेघालोके मेघस्य आलोके दर्शने (जाते सति) सुखिनः अपि कण्ठाश्लेषप्रणयिजनसङ्गतत्वात् सुखिनः अपि चेतः मनः । अन्यथावृत्ति । अन्यथा अन्यप्रकारा वृत्तिः प्रवृत्तिः यस्य तत् । 'प्रकारे था' इति था। सामान्यापेक्षया विशेषनिर्देशः प्रकारः। 'वृत्तिः प्रवृत्तौ वृत्तौ च कौशिक्यादिप्रवर्तने' इति विश्वलोचने । भवति जायते। (ततः तस्मात् ) तावत् आदौ 'आर्ये इतस्तावदागम्यतां' इत्यत्र यथा । निकुर्वन् । निकारं परिभवं करिष्यन् । परिभवं कर्तुमुद्यत इत्यर्थः। अहं स्तनितमुखरैः स्तनितैः गर्जितैः मुखराः भयङ्करध्वनयः । स्तनितं गर्जितं । 'स्तनितं गर्जितं मेघनिषे' इति वचनात् । मुखराः वाचाटाः । गर्हितध्वनयः । मुखेन वाग्लक्ष्यते । निन्दितं मुखमस्त्यस्य मुखरः। 'मधुकृष्यादिभ्यः खलौ' इति रो मुखात् । स्तनितसञ्जनितभयङ्करध्वनिभिरित्यर्थः । विद्युदुद्योतहासैः । विद्युतां तडितां उद्योतस्य हासः प्रकाशः विद्यते यत्र । हासः विस्तारो वा । विद्युदुद्योतभासमानशरीरैरित्यर्थः। द्विरदसदृशैः करिशरीराकारधारिभिः। मेधैः जलदैः । अस्य भगवतः पार्श्वनाथस्य । चित्तक्षोभान् । चित्तस्य मनसः क्षोभान् प्रक्षोभान् कुर्वे करिष्ये । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति समीपभविष्यदर्थे वर्तमानप्रयोगः! पश्चात् अनन्तरं च । प्रचलितधृति । प्रचलिता प्रकम्पिता धृतिः धैर्य स्थैर्य वा यस्य सः। तम् । एनं मुनीश्वरं। हीति हर्षे । 'ही विस्मयविषादयोः । ही हर्षे दुःखहेतौ च' इति विश्वलोचने। अनेन भगवद्धिंसानन्दं स जुजुषे इति व्यज्यते । चित्रं। अद्भुतं यथा तथा । अद्भुतेन विधिनेत्यर्थः । हनिष्यामि घातयिष्यामि । अनेन निर्विकल्पसमाधिनिमग्नान्तःकरणं भगवन्तं पार्श्वजिनं हन्तुं स समर्थः नासीत् इति तं ध्यानात् प्रच्यावयितुं प्रयतते स्मेति व्यज्यते । As at the siglit of clouds the hearts of the happy even get perverted, I, ready to destroy him, shall first create excitement in his licart (or move his heart to strong emotions) with elephant-like clouds, making a continuous roar by thundering and assuming tlie lustre of ile flashes of lightnings, and then put him, whose composuro of mind is destroyed Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy