SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [पार्धाभ्युदये वहन् धरन् । स्वयं आत्मा । क्रूरः निघृणः । मृत्युः इव यमः इव । अपघृणः निर्दयः । अपगता घृणा दया यस्मात् सः । ' कारुण्यं करुणा घृणा' इत्यमरः । वैरं स्मृत्वा पूर्वभवशात्रवं अनुध्याय । मुनि पार्श्वजिनेश्वरं । निकामं अत्यर्थे । हन्तुकामः हन्तु इच्छन् । हन्तुं कामः इच्छा यस्य सः । 'सम्तुमो मनःकामे' इति तुमो मकारस्योप् । क्रोधात् अमर्षात् । कौतुकाधानहेतोः हननेच्छापूर्त्यर्थ । कौतुकमभिलाषः हन्तुमिच्छा। तस्य आधानहेतोः पूर्त्यर्थे । आधानस्य हेतु: आधानहेतुः । तस्मात् । हेतौ का। 'कौतुकं त्वभिलाषेऽपि कुसुमे नर्महर्षयोः । परम्परासमायाते मगले चातिशायिनि ।' इति विश्वलोचने । तस्य पुरः भगवतः पार्श्वजिनेन्द्रस्य पुरस्तात् । कथमपि महता प्रयत्नेन। 'ज्ञानहेतुविवक्षायामप्यादि कथमव्ययम्। कथमादि . तथाप्यन्तं यत्नगौरवबाढयोः ' इत्युज्ज्वलः । स्थित्वा आस्थाय । प्रज्वलितक्रोधाग्नित्वात् सञ्जातवेपथुः महता कष्टेन तस्य पुरः तस्थाविति भावः । तद्वधोपायं । तस्य भगवतः वधस्य हननस्य उपायः साधनं कर्म वा । तं । इच्छन् अभिलषन् । तद्धननं अभिलषन्नित्यर्थः । अन्तर्बाष्पः अन्तर्निरुद्धाश्रुः। विरहव्यथाकुलितस्वान्तत्वात् अस्त्रार्द्रनयनोऽपि अधुना समरकाले अश्रुमोचनमयुक्तमिति विचार्यान्तरेवाश्रूणि स्तम्भितवानिति भावः । राजराजस्य कुबेरस्य । राज्ञां यक्षाणां राजा प्रभुः राजराजः । 'राजा प्रभौनृपे चन्द्रे यक्षे यक्षेशचन्द्रयोः' इति विश्वः । 'राजाहःसखिभ्यष्टच' (पा.) इति टच । राजराजः कुबेरः। 'राजराजो धनाधिपः' इत्यमरः । अनुचरः सेवकः । स कमठचरो यक्षः । चिरं बहुफालं । दध्यौ ध्यायति स्म । 'ध्यै चिन्तायाम्' इति धातोर्लिट् । ' णमेरौशातः ' ( शा० ) इति णशः औश् । ____ Tiat this inconsiderate raskal, with a franlulent heart, attending upon Kubera, the wretched demon, cherishing evil desires, assuming darkness of a thundering new clond, considering the sinless lord of sages who was deeply engrossed in meditating upon his own soul to bó trivial, harbouring excessivo, jealousy in his heart, looking like cruel Death himself carrying drops of perspiration, a merciless one, extremely desirous of killing the sage after remembering (his former ) cnmity, shaving stood before him with great difficulty with a purpose to fulfil his desire, expecting to find out a means of his death through anger, with ztcars suppressed inside, meditated for a long time. मेधैस्तावत्स्तनितमुखरैर्विधुदुद्योतहास: चित्तक्षोभान्द्विरदसहशैरस्य कुर्वे निकुर्वन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy