________________
२४
जाता रम्या सपदि विरलैरिन्द्रगोपस्तदा भूः सेव्या केकिध्वनितमुखरा भूभृतां कुअदेशाः । योगी तस्मिञ्जलदसमये प्रास्खलनात्मधैर्यात्
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ २० ॥ अन्वयः - तदा भूः विरलैः इन्द्रगोपैः सपदि रम्या जाता। भूभृतां केकिध्वनितमुखराः कुञ्जदेशाः सेव्याः ( जाताः ) । तस्मिन् जलदसमये आत्मधैर्यात् योगी न प्रास्खलत् । प्रकृतिकृपणा हि चेतनाचेतनेषु कामार्ताः ।
"
जातेत्यादि । तदा तस्मिन् समये । यदा स यक्षः भीमजीमूतमायामस्राक्षीत् तदेत्यर्थः । भूः पृथ्वी विरलैः पेलवैः । सुकुमारैरित्यर्थः । इन्द्रगोपैः रक्तवर्णैः कीटकविशेषैः प्रावृषि जायमानैः । सपदि झटिति रम्या रमणीया जाता बभूव । भूभृतां पर्वतानां । केकिध्वनितमुखराः । केकिनां मयूराणां ध्वनितैः ध्वनिभिः । ' नब्भावेक्तोऽम्यादिभ्यः' इति भावे क्तः नप् च । केकाध्वनिभिरिर्त्यथः । मुखराः वाचालिताः । के काध्वनिभिर्वाचालाः कृता इत्यर्थः । कुञ्जदेशाः दरीप्रदेशाः लतानिकुञ्जबहुलाः पर्वतप्रदेश वा । कुतु न स्त्रियां । नौ वत्से निकुञ्जेऽपि' इति विश्वलोचने । सेव्याः सेवितुं योग्याः । जाताः इति शेषः । अर्थवशात् वचनविपरिणामः । तस्मिन् जलदसमये मायानिर्मितमेघे काले । मायानिर्मितवर्ष काले इत्यर्थः । आत्मधैर्यात् आत्मनः मनसः धीरत्वात् । ' आत्मा ब्रह्ममनोदेहस्वभाव धृतिबुद्धिषु' इति विश्वलोचने । ध्यानविषयात्मन्यैकाग्न्यादित्यर्थः । योगी । योगः ध्यानं अस्यास्तीति योगी । ध्याननिमग्नस्तपस्वीत्यर्थः । न प्रास्खलत् आत्मध्यानान्न च्यवते स्म । प्रकृतिकृपणाः । प्रकृत्या निसर्गतः कृपणाः कुत्सिताः । दीनाः कातराः विगलितधैर्याः इत्यर्थः । ' कृपणः कुत्सित कुमौ ' इति विश्वलोचने । हि एव । यद्वा हि यतः हि ताववधारणे ' इत्यमरः । चेतनाचेतनेषु । चेतनाश्च अचेतनाश्च चेतनाचेतनाः । तेषु । विषयसप्तमीयम् । कामार्ताः कामं आर्ताः पीडिताः विकृताः वा भवन्ति । यद्वा कामः अभिलाषः अस्या - स्तीति कामः । मनः इत्यर्थः । 'ओऽभ्रादिभ्यः' इत्यस्त्यो मत्वर्थीयः । कामः आर्तः येषां ते कामार्ताः। वाहिताग्न्यादित्वात् क्तान्तस्य परनिपातः । विकृतमनस्काः इत्यर्थः । ये स्वभावतो धीराः न तेषां मनः चेतनाचेतनविषयेषु विकृतिमापद्यते, स्वभावकातराणामेव तत्र मनोविकृतेः प्रादुर्भावसम्भवात् । भगवतः स्वभावतो धीरोदात्तत्वान् मनोविकृतेः सम्भवाभावादात्मध्यानात्प्रच्युत्यभावः इति भावः । 'योगिन् ' इति प्रस्खले:' इति च याच याचने ' इत्यस्य द्विकर्मकस्य धोः कर्मद्वयस्य
पाठौ
'सत्यप्येवं इत्यत्र
Jain Education International
For Private & Personal Use Only
[ पार्श्वाभ्युदये
८
८
,
www.jainelibrary.org