SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [ पार्थाभ्युदये च असौ रुकुटिश्च आबद्ध रुकुटिः । 'पुंवद्यजातीयदेशीये' इति यत्वात् पूर्वपदस्य पुंवद्भावः । तथा कुटिलः वः भूतटः भूप्रदेशः यस्य सः। 'आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ' इत्यमरः । जिह्मवक्तः । जिहां कुटिलं वक्त्रं मुखं यस्य सः । बसः। जिमस्तु कुटिलेऽलसे' इत्यमरः । क्रोधावेशात् । क्रोधस्य अमपस्य आवेशात् उद्रेकात् । ज्वलदपघन :। ज्वलन् दहन् अपघनः अङ्गं यस्य सः। बसः। अपहन्यते इति अपघनः । 'घनान्तर्षणप्रणप्रघाणोद्धनापघनायोधनविघनद्रुघणस्तम्बधनपरिघोपघ्नसङ्घोघ्ननिघप्रमदसम्मदाः' इत्यपधनो निपात्यते अङ्ग चेद् भवति । 'अङ्ग प्रतीकोऽवयवोऽपधनः ' इत्यमरः। अपदृष्टिः । अपगतादृष्टिः यस्य सः अपदृष्टिः । विरूक्षं । विगतः रूक्षः अप्रेम यस्य सः । तं । प्रेमपरमित्यर्थः । यद्वा विशिष्टः रूक्षः अप्रेम यथा स्यात्तथा । हसः। स्नेहोद्रेकात् स्नेहस्य प्रेम्णः उद्रेकात् आधिक्येन प्रादुर्भावात् । चरणपतितं । चरणयोः पादयोः पतितं विनतम् । वप्रक्रीडापरिणतगजप्रेक्षणीयं । वप्रक्रीडाः उत्खातकेलयः। 'उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते ' इति शब्दार्णवे । तासु परिणतः । 'तिर्यग्दन्तप्रहाररतु गजः परिणतो मतः' इति हलायुधः । स चासौ गजश्वेति यसः । सः इव प्रेक्षणीयः दर्शनीयः । तम् । 'सामान्येनोपमानम्' इति षसो यसो वा । तं भ्रातरं मरुभूतिनामानं कनीयांसं भ्रातरं । न ददर्श न पश्यति स्म । क्रोधावेशात् अपदृष्टिः स तं नाऽपश्यदिति भावः ! He, with his eyebrows crooked on account of their being contractel in wrinkles, with a tortuous face, with his boily burning with the fury of his anger, with his eyes turned elsewhero, did not direct lis oyes towards his affectionate brother fallen at his feet on account of bis excessivo affection for him ( Kamatha ), lovely to look at like an elephant engage in the playful butting against a mound. सोऽसौ जाल्मः कपटहृदयो दैत्यपाशो हताशः स्मृत्वा वैरं मुनिमपघृणो हन्तुकामो निकामम् । क्रोधात्स्फूर्जनवजलमुचः कालिमानं दधानः __तस्य स्थित्वा कथमाप पुरः कौतुकाधानहेतोः ॥९॥ . किञ्चित्पश्यन्मुनिपमनघं स्वात्मयोगे निविष्टं ... १ केतकाधान हेतोः .... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy