SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] ताः गिरिवननदीः । कृच्छ्रात् महता कष्टेन । पर्यटन परिभ्रमन् । अध्वश्रान्तः अध्वना परिभ्रमणेन श्रान्तः खिन्नः सः अपि मरुभूतिः अपि । आषाढस्य । आषाढ्या चन्द्रोपेतया युक्ता पौर्णमासी आषाढी । 'भायुक्तः कालः' इत्यण् । 'टिढ्डाणञ्' इति डी । आषाढी पौर्णमासी अस्मिन्निति आषाढो मासः 'साऽ स्मिन्पौर्णमासीति खौ ' इत्यण । तस्य आषाढस्य प्रथमदिवसे प्रतिपदिने । आश्लिष्टसार्नु । आश्लिष्टं आक्रान्तं सानु प्रस्थः येन सः। तम् । ' स्नुः प्रस्थः सानुरस्त्रियां' इत्यमरः । मेघं वारिवाहं । यथा इव । 'व वा यथा तथैवैवं' इत्यमरः । धूमप्रततवपुष । धूमेन प्रततं व्याप्तं वपुः यस्य सः । तं धूमप्रततवपुषं । नीललेश्यं नीलवर्ण दुष्टाभिप्रायं च । यं च कमठं च । कतिपयथकैः । कतिपयानां पूरणाः कतिपयथाः। ते एव कतिपयथकाः । 'षट्कतिकतिपयस्य थुक्' इति डटि थुक् । तैः कतिपयथकैः। कियद्भिरित्यर्थः । वासरैः दिनैः । अद्रिकुले। अद्रेः पर्वतस्य बुझे लतापिहितप्रदेशे । दूरात् दूरप्रदेशात् । उच्चैः उच्चैःस्थाने । अपश्यत् पश्यति स्म । ददशेत्यर्थः । ' पाघ्रामास्थाम्नादाणद्रश्यति. सर्तिशदसदां पिवजिघ्रधमतिष्ठमनयच्छपश्य धौशीयसीदाः' इति पश्यादेशः । Even lic, climbing mountains, crossing rivers and wandering through forests with a great difficulty anl tired of travelling, saw him, from a distanco high up in a certain cave on a mountain after somo days, with his bo ly darkened owing to its being covered over with snoke anl with his mind engrossed in evil thoughts like, a cloud closely connected with a precipice (or peak of a mountain) on the first day of tle month of Ashadha. यश्चाबद्धकुटिकुटिलरूतटो जिह्मवक्त्रः क्रोधावेशाज्ज्वलदपधनों भ्रातरं तं वदानीम् ! स्नेहोद्रेकाचरणपतितं नाऽपदृष्टिविरूक्षं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ८॥ अन्वयः- यश्च आवद्ध झकुटिकुटिलभ्रूतटः, जिह्मवक्त्रः, क्रोधावेशात् ज्वलद. पधनः अपदृष्टिः विरुक्ष स्नेहोद्रेकात् चरणपतितं वप्रक्रीडापरिणतगजप्रेक्षणीयं ते भ्रातरं तदानीं न ददर्श। यश्चेत्यादि । यश्च यः कमठश्च । आबद्धम्हकुटिकुटिलभूतटः । आबद्धा विरचिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy