SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये यं चेत्यादि । यं च ज्येष्ठ भ्रातरं अनुशयात् पश्चात्तापात् अन्विष्यन् गवेषयन् भ्रातृभक्तः ज्येष्ठे भ्रातरि भक्तियुक्तः । कनीयान् यवीयान् । अयमस्मादनयोर्वा प्रकृष्टः युवा कनीयान् । 'युवाल्पयोः कन् वा ' इति कन् । ' गुणाङ्गाद्वेष्ठेयसू' इतीयस् । अवशात् शोकात् अनधीनात् दुःखात् । देहे शरीरविषये अत्यनूचानवृत्त्या । अनूचानः ब्रतसम्पन्नः । तपस्वीत्यर्थः । अनूचानमतिक्रान्ताऽत्यनूचाना । 'प्रात्यवपरिनिः प्रत्यादयः कान्ताद्यर्थे ' इति प्रादिः सः । ' कर्तर्य नूचानः ' इति वचेरनुपूर्वीत् कर्तरि कारके काननिपातः । अत्यनृचाना चासौवृत्तिश्च अत्यनूचानवृत्तिः । तया । 'पुंवद्यजातीयदेशीये इति पुंवद्भावः । अपरिमितदुःखाक्रान्तत्वात् शरीरस्य धारणपोषणयोरदत्तावधानः इत्यर्थः । तपस्वी संयमसिध्द्यर्थमनशनादित्रतमाचरन्नपि तदर्थमेव देहधारणमावश्यकमिति मन्यमानोऽन्नपानादि सेवते । अयं तु स्वभ्रातृवियोगदुःखाकुलितान्तःकरणः शरीरे निर्विण्णः कृशतरतनुर्जातः । कृशतरतनुत्वाच्च तत्प्रकोष्ठाद्वलयभ्रंशो जातः इति भावः । कतिचित् मासान् नीत्वा यापयित्वा वनं वनेषु नदीं नदीषु उत्तरारोहशैलान् उन्नततरारोहाणां शैलानामुपरि अत्युद्भान्तः अत्यर्थ बभ्राम | In search of whom, the younger brother, who was devoted to (lis elder brother), and whose fore-arin was deprived of a golden bracelet owing to its being slipped off on account of the treatment he gave to his body being worse than that of an ascetic owing to his grief being unristricted, having passed some months, wandered and wandered in repentence through forests, crossed rivers, and climbed mountains possessing very lofty heights. यं चाऽपश्यद्भिरिवननदीः पर्यटन्सोऽपि कृच्छ्रात् अध्वश्रान्तः कतिपयथ कैर्वा सरैरद्रिकुञ्जे । दूराद्धूमप्रततवपुषं नीळलेश्यं यथोच्चैः आषाढस्य प्रथमं दिवसे मेघमाश्लिष्टसानुम् ॥ ७ ॥ अन्वय :- गिरिवननदीः कृच्छ्रात् पर्यटन् अध्वश्रान्तः सः अपि आषाढस्य प्रथमदिवसे आश्लिष्टसानुं मेघं यथा धूमप्रततवपुषं नीललेश्यं यं च कतिपयथकैः वासरेः अद्रिकुञ्जे दूरात् उच्चैः अपश्यत् । यं चेत्यादि । गिरिवननदीः । गिरयश्च वनानि च नद्यश्च गिरिवननद्यः 1 १ प्रशमदिवसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy