SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्ग] यस्मिन्नित्यादि । यस्मिन् भूताचलाभिधेऽचले । ग्रावा उपलः । जातावेक - वचनम् । ग्रावाणः इत्यर्थः । 'ग्रावाणौ शैलपाषाणौ' इत्यमरः । स्थपुटिततलः विषमोन्नततल: । 'स्थपुटं विषमोन्नतं' इति धनञ्जयः। स्थपुटं विषमोन्नतं सञ्जातं स्थपुटितं । 'तदस्य सञ्जातं तारकादिभ्यःइतः' इतीतः। स्थपुटितं तलं यस्य सः। विशेषणस्य विशेष्यलिङ्गवचनत्वात् विषमोन्नाततलाः इत्येष एवार्थो ग्राह्यः । प्रदेशा: दावदग्धाः दावामिना दग्धाः । वृक्षाः तरवः। शुष्काः। हेतुगर्भविशेषणमेतत् । तेन शुष्कत्वादित्यर्थः । न उपभोग्याः उपभोक्तुं योग्याः । नोपभोगार्हाः इत्यर्थः । विविधवृतयः । विविधाः नानाविधाः वृतयः कण्टकवेष्टनानि येषां ते । एतदपि हेतुगर्भविशेषणमेव । तेन नानाविधकण्टकवेष्टनवेष्टितत्वादित्यर्थः । न गम्याः नाऽभिगमनीयाः। नोपगमनीयाः इत्यर्थः । तस्मिन् अद्री पर्वते । यः अबलाविप्रयुक्तः । अबलायाः स्वभ्रातृजायायाः इत्वरिकातुल्यायाः वसुन्धरायाः विप्रयुक्तः विरही । सः कामी। सः स्वभ्रातृभाोगामी अत एव कामी कामाकुलः । विषयासक्तचित्तः । शुष्कवैराग्यहेतोः शुष्कं च तद्वैराग्यं च शुष्कवैराग्यं । तस्य हेतोः । तदर्थमित्यर्थः । कामान्धस्योजीवितवैरबन्धस्य तपश्चरतोऽपि कथं वैराग्यं समीचीन नाम, तस्य सरागत्वात् ? कतिचित् कानिचित् श्रेष्मान् ग्रीष्मर्तुसम्बन्धिनः दिवसान अहानि नयति स्म निनाय । ग्रीष्मस्येमे ग्रैष्माः । तान् । ___Ho, that lustful person, who was separated from his beloved, spent, for the sake of shammed subjugation of passions, some suminer days on that mountain, the stones on which had their surfaces elevated and dopressed (i. e. uneven ), the trees on which being dried up wore unworthy of being enjoyed anil on account of having various enclosures - were inaccessible and the regions of which were scorched up by the sylvan fire [ or forost-conflagration. ]. यं चाऽन्विष्यन् वनमथ नदीमुत्तरारोहशैलान् ___ अत्युद्धान्तश्चिरमनुशयादातृभक्तः कनीयान् । शोकादेहे कतिचिदवशादत्यनूचानवृत्त्या ... नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥ ६॥... अन्वयः -- यं च अनुशयात् अन्विष्यन् भ्रातृभक्तः अवशात् शोकात् देहें अत्यनूचानवृत्त्या कनकवलयभ्रंशरिक्तप्रकोष्ठः कनीयान् कतिचित् मासान् नीत्वा वनं नदी अथ उत्तरारोहशैलान् चिंर अत्युभ्रान्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy