SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वभ्युदये ऊर्ध्वभुजः सन् । उद्गतौ बाहू यस्यः सः । बसः । मुहः वारंवारं । ५ञ्चतापं तपः । पञ्च तापाः अग्नयः यस्मिन् इति पञ्चतापं । बसः। पावकपञ्चकमध्यस्थितिरूपं तपः । कुर्वन् चरन् विदधानः । यः परुषमननः। परुषं निर्दयं मननं विचारः ध्यानं वा यस्य सः । बसः । जडधीः मन्दधीः । हेयोपादेयविवका विकलः इत्यर्थः । रामगिर्याश्रमेषु । रामगिरेः आश्रमेषु तपश्चरणयोग्यस्थानेषु । आश्राम्यन्ति तपस्यन्ति अस्मिन्नित्याश्रमः । स्निग्धच्छायातरुषु । छायाप्रधानाः तरवाः छायातरवाः । नमेरुवृक्षाः इत्यर्थः । शाकपार्थिवादित्वात्समासः । 'छायावृक्षो नमेरुः स्यात्' इति शब्दार्णवे | स्निग्धाश्च ते छायातरवश्च स्निग्धच्छायातरवः । तेषु । स्निग्धाः सान्द्राः 'स्निग्धं तु मस्टणे सान्द्रे' इति शब्दार्णवे। तापसानां तपस्विनां । तपोऽस्याऽस्तीति तापस: । 'अण' इत्यण् । मनोज्ञा मनोहरां । वसतिं निवास । 'वहिवस्यर्तिभ्यश्च' इत्यौणादिकोऽतिः । न स्मरति स्म स्मृतिविषयता न निनाय । परोक्षे वर्तमानस्य स्मशब्दस्य प्रयुक्तत्वात् 'स्मे' इति लट् । 'स्म्रर्थदयेशां कर्मणि' इति कर्मणि ता न, शेषत्वेनाऽविवक्षितत्वात् । तपोयोग्यान् रामगिरीस्थान आश्रमान् विहायाऽन्यत्र नद्यास्तीरे स्वदुरभिसन्धिनिह्नवार्थ तपश्चरन् तामाश्रमेषु वसतिं मुनिजनस्पृहणीयां स्मृतिविषयतामपि न निनायेति भावः । He, a dullard, with a stone lifted ur, rarching the upper paris of his body, with his arms raised ligh up, practising on the banks of that river penance again and again in which the body of the ascetic is exposed to five fires to mortify it, engrossed in cruel tl.ouglits, did not allora. thougt to occur to his mind regarding liis residence in the thick groves of very shadowy Nawr.eru trecs growing in the lermitages situated on the Ramagiri mountain-a residence which was very pleasing to the ascetics. यस्मिन् ग्रावा स्थपुटिततलो दावदग्धाः प्रदेशाः शुष्का वृक्षा विविधवृत यो नोपभोग्या न गम्याः । यः स्म श्रेष्मान् नयति दिवसाशुष्कवैराग्यहेतोः तरिमन्नद्रौ कतिचिदबलाविप्रयुक्तः स फामी ॥५॥ अन्वयः- अस्मिन् ग्रावा स्थपुटिततलः, प्रदेशाः दावदग्धाः, वृक्षाः शुष्काः न उपभोग्याः विविधवृतयः न गम्याः तस्मिन् अद्रौ यः अबलाविप्रयुक्तः सः कामी शुष्कवैराग्यहतोः कतिचित् त्रैष्मान् दिवसान् नयति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy