SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये अस्तमदृश्यतां 6 " अस्तङ्गमित महिमा । विलयं वा गमितः प्रापित: महिमा ऐश्वर्य गौरवं वा यस्य सः । महतो भावो महिमा | पृथ्वादेर्वेमन् ' इति इमन् तस्य भावः ' इत्यस्मिन्नर्थे । भ्रुकुटिविषमं । श्रुकुट्या असौम्यया दृशा विषमं भयजनकं यथा स्यात् तथा । ' भ्रुवोऽच्च कुटिकुंसे ' ( शा. ) इति कुटयुत्तरपदस्य भ्रूशब्दोकारस्य प्रः ( ह्रस्वः )| प्रेक्षाञ्चक्रे अद्राक्षीत् । ईक्ष दर्शने इत्यस्य धोः लिड्वत्कृञो योगे ' सरोरिजादे: ' इति 'लिड्वकृञि इति चाम् । " ४ When, owing to his superhuman power, his aerial car was brought to a standstill (in the sky ), he, who recognised Him through a despicable means of cognition, who was very proud, whose glory was caused to disappear by the severe punishment inflicted on him in his former birth by the king (Aravinda) to which he was subjected for years and years together and which was conditioned by his brother's wife whose husband was separated from her, looked with frown very passionately.. > यो निर्भः परमविषमैघाटितो भ्रातरि स्वे बद्ध्वा वैरं कपटमनसा हा ! तपस्वी तपस्याम् । सिन्धोस्तीरे कलुषहरणे पुण्यपण्येषु लुब्धो यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु || ३ || अन्वय :-- यः परमविषमै निर्भत्स: घाटितः ( सः अयं ) यक्षः स्वभ्रातरि वैरं बध्वा पुण्यपण्येषु जनकतनयास्नानपुण्योदकेषु लुब्धः सिन्धोः तीरे कलुषहरणे. तपस्वी हा ! कपटमनसा तपस्यां चक्रे । यो निर्भरित्यादि । यः परमविषमैः । परमाश्च ते विषमाश्च परमविषमाः तैः । अतिशयेनाऽरुन्तुदैरित्यर्थः । निर्भत्सैः । निर्भर्त्सनं निर्भसः । तैः । धिक्कारैरिति भावः । घाटितः परं दुःखं प्रापितः पुरान्निष्कासितो वा । हन्त्यर्थस्य चुरादिकस्य घटधातोः क्तान्तं रूपं । बभूवेतिशेषः । सः अयं वर्ण्यविषयः यक्षः स्वभ्रातरि स्वत्रन्धौ वैरं बध्वा वैरं विरच्य पुण्यपण्येषु पुण्येन पुण्यवद्भिर्वा पण्येषु क्रेतुं योग्येषु । ग्राह्येष्वित्यर्थः । जनकतनयास्नानपुण्योदकेषु । जनकस्य जनकाभिधानस्य राज्ञः तनया दुहिता सीताभिधाना । तस्याः स्नानैरवगाहनैः पुण्यानि पवित्राणि परमपतिव्रता संस्पशसञ्जातपावित्र्याणि उदकानि सलिलानि तथोक्तानि । तेषु । लुब्धः अभिलाषुकः । 'लुब्धोभिलाषुकः' इत्यमरः । सिन्धोः नद्याः । ' सिन्धुर्ना सरिति ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy