SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] who was of acromonious temper owing to his celestial power, saw Pars'va in a stan ling posture with his very beautiful boly assuming the beauty of a pillar carved out of emerald, and extremely motionless on account of the concentration of his mind caused by his being engrossed in deep meditation. तन्माहात्म्यात्स्थितवति सति स्त्रे विमाने समानः प्रेक्षाञ्चक्रे भ्रुकुटिविषमं लब्धसञ्ज्ञो विभागात् । ज्यायान्भ्रातुर्वियुतपतिना प्राक् कलत्रेण योऽभूत् शापेनास्तङ्गमित महिमा वर्षेभोग्येण भर्तुः ॥ २ ॥ अन्वयः - तन्माहत्म्यात् स्वे विमाने स्थितवति सति विभागात् लब्धसञ्ज्ञः समानः, प्राक् वियुतपतिना भ्रातुः कलत्रेण यः ज्यायान् ( शापः ) अभूत् ( तेन ) वर्षभोग्येण भर्तुः शापेन अस्तङ्गमितमहिमा भ्रुकुटिविषमं प्रेक्षाञ्चक्रे । ८ , L , तन्माहात्म्यादित्यादि । तन्माहात्म्यात् । तस्य भगवतः पार्श्वजिनेश्वरस्य प्रभावात् । प्रभावेणेत्यर्थः । महांश्चासावात्मा च महात्मा । महात्मनो भावो महात्म्यं । तस्मात् । पत्यन्त पुरोहितादेर्ण्यः इति भावे यः । यस्य णित्त्वात् 'हृत्यचामादेः " इत्यादेरच ऐप् । आङ् महतो जातीये च' इत्याङ् । स्वे स्वकीये । शम्बरासुरस्वामि इत्यर्थः । विमाने व्योमयाने । 'व्योमयानं विमानोऽस्त्री ' इत्यमरः । स्थितवति - सति स्तम्भितत्वात् स्थिते सति । तिष्ठति स्म स्थितवान् । 'तः इति भूते क्तवतुस्त्यः । ‘यद्भावाद्भावगतिः' इति ईप् । विभागात् विभङ्गावधिज्ञानात् । लब्ध सञ्ज्ञः सञ्जातप्रत्यभिज्ञानः । यः ध्यानैकतानं भगवन्तं मरुभूतिचरं स्ववैरिणं प्रत्याभिज्ञातवानित्यर्थः । समानः साभिमानः । ' वा नीचः' इति सहस्य सः । प्राक् पूर्वस्मिन् भवे । वियुतपतिना । वियुतः विप्रलब्धः पृथग्भूतः प्रोषितत्वात् पतिः यस्य । तेन । कलत्रशब्दः नित्यनपुंसकलिङ्गः । मरुभूतेर्युद्धार्थ प्रोषितत्त्वात् तस्य प्रोषितभर्तृकत्वं । भ्रातुः मरुभूतेः । कलत्रेण भार्यया वसुन्धरया । कलत्रं श्रोणिभार्ययोः इत्यमरः । यः ज्यायान् महत्तरः । ' वृद्धस्य ' इति ज्यादेशः । ' ज्यायान्' इति ईयसः आत् । महत्तरः इत्यर्थः । शापः वहिर्निष्कासनरूपः दण्डः । अभूत् भवति स्म । भर्तुः अरविन्दमहाराजस्य । वर्षभोग्येण । वर्षाणि भोग्येन अनुभवनीयेन वर्षभोग्येण । कालाध्वनोरविच्छेदे इति इप् । 3 ८ 4 सौ " इति नस्य णः T शापेन बहिर्निष्कासनदण्डेन । Jain Education International For Private & Personal Use Only - “ www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy