SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (110) हिमवत्पर्वतनिर्झ राम्बु तुरग: पीतं च गाङगं गजः ध्वनितं मज्जनतर्यकैद्विगुणितं भूयोऽपि तत्कन्दरे । स्वयमेवोपनतौ च यस्य महतस्तौ धर्मचक्रायुधौ। हिम- (वान् )- वत्कोतिसरूपतामुपगतः तत्कीतिनारायणः ।। २३ ।। ततः प्रतिनिवृत्य तत्प्रकृतिभृत्यकर्मेत्ययं प्रतापमिव नर्मदातटमनुप्रयातः पुनः । सकोशलकलिङगवेङगिडहलौड़कान्मालवान् विलभ्य निजसेवकैः स्वयमबूभुजद् विक्रमः ।। २४ ।। प्रत्यावृत्तः प्रातिराज्यं विधेयं कृत्वा रेवामुत्तरां विन्ध्यपादे । कुर्वन्धर्मान्कीर्तनः पुण्यवृन्दरध्यष्ठात्तां स्वोचितां राजधानीम् ॥ २५ ॥ मण्डलेशमहाराजसर्वस्वं यदभूर्भुवः । महाराजः शर्व स्वामी भावी तस्य सुतोऽजनि ।। २६ ।। यज्जन्मकाले दैवज्ञैरादिष्टं विषहा भुवम् । भोक्तेति हिमवत्सेतुपर्यन्ताम्बुधिमेखलाम् ॥ २७ ॥ योद्धारो ऽमोघवर्षेण बद्धा ये च युधि द्विषः । मुक्ता ये विकृतास्तेषां भस्मतः शृङखलोद्धृतिः ॥ २८ ॥ ततः प्रभूतवर्षः सन् स्वसम्पूर्णमनोरथः । जगत्तुङगः स मेरुर्वा भूभृतामुपरि स्थितः ।। २९ ।। उदतिष्ठदवष्टम्भं भक्तुं द्रविलभूभृतां । स जागरणचिन्तास्थमन्त्रणभ्रान्तचेतसाम् ॥ ३० ॥ प्रस्थाने न हि केवलं प्रचलति स्वच्छादिताच्छादिता धात्री विक्रमसाधनैः सकलुषं विद्वेषिणां द्वेषिणाम् । लक्ष्मीरप्युरसो लतेव पवनप्रायासिता यासिता धूलिनँव दिशोऽगमद्रिपुयशस्सन्तानकं तानकम् ॥ ३१ ॥ त्रस्यत्केवळपाण्ड्यचौलिकनृपस्सम्पल्लवं पल्लवं प्रम्लानि गमयन्कलिङगमगधप्रायासको यासकः । गर्जद्गुर्जरमौलिशौर्यविलयोऽ लङकारयन्कारयन् । उद्योगस्तदनिन्द्यशासनमतस्तद्विक्रमो विक्रमः ।। ३२ ॥ निकृतिविकृतगङगःशञ्खलाबद्धनिष्ठा मृतिमयुरनुकूला मण्डलेशा स्वभृत्याः । विरजसमभितेनुः यस्य बाह्यालिभूमि परिवृतिमनुविष्टया वेङगिनाथादयोऽपि ॥ ३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy