________________
(109)
गङ्गायमुनयोर्मध्ये राज्ञो गौडस्य नश्यतः ।
लक्ष्मीलीलारविन्दानि श्वेतच्छत्राणि योऽ ह - ( रे ) - रत् ॥ १४ ॥ व्याप्ता - (ss ) - विश्वाम्भरान्तं शशिकरधवला यस्य कीर्तिः समन्तात् प्रेङखच्छङका लिमुक्ताफलशत शफराने कफेनोमि - (रु) - रूप: पारावारान्यतीरोत्तरणमविरलं कुर्वतीव प्रयाता स्वर्गं गीर्वाणहारद्विरदसुरसरिद्धार्तराष्ट्रच्छलेन ॥ १५ ॥ प्राप्तो राज्याभिषे - ( क ) - कं निरुपमतनयो (य) य: स्वसामन्तवर्गात् स्वेषां स्वेषां पदेषु प्रकटमनुन- ( ये ) - यैः स्थापयिष्य- (न) - नशेषान् । 'पित्रा यूयं समाना' इति गिरमरणीन्मन्त्रिवर्गस्त्रिवर्गो
द्युक्तः कृत्येषु दक्षः क्षितिमवति यदोन्मोक्षयन्बद्धगङ्गगम् ।। १६ ।। दुष्टांस्तावत्स्वभृत्यान् झटिति विघटितान् स्थापितान्येशपाशान् । युद्धे युवा स बध्वा विषमतरमहोक्षानिवोग्रान्समग्रान् । मुक्त्वा सार्द्रान्तरात्मा विकृतिपरिणती वाडवाग्नि समुद्रः क्षोभो (ना) मा भूद्विपक्षानिव पुनरिव तान्भूभृतो यो बभार ॥ १७ ॥ उपगतविकृतिः कृतघ्नगङगो यदुदितदण्डपलायनोऽनुबन्धाद् व्यपगतपदशृङखलः खलो यः सनिगलबन्धगलः कृतः स येन ॥ १८ ॥ श्रीमान्धाता विधातुं प्रतिनिधिरपरो राष्ट्रकूटान्वयश्रीसारां सारामरम्यप्रविततनगरग्रामरामाभिरामाम् । उर्वीमुर्वीश्वराणां मकुटमकरिका श्लिष्टपादारविन्दः । पारावारोरुवारिस्फुटरवरशनां पातुमभ्युद्यतो यः ।। १९ ।। नवजलधरवीरध्वानगम्भीरभेरी
रवबधिरितविश्वाशान्तरालो रिपूणाम् ।
पटुरवपदढक्काकाहलोत्तालतूर्य
त्रिभुवनषवलस्योद्योगकालस्य कालः ॥ २० ॥ भूभृन्मूनि सुनीतपादविसरः पुण्योदयस्तेजसा कान्ताशेषदिगन्तरः प्रतिपदं प्राप्तप्रतापोन्नतिः । भूयो योऽप्यनुरक्तमण्डलयुतः पद्माकरानन्दितो मार्तण्डः स्वयमुत्तरायणगतस्तेजोनिधिर्दुःसहः ॥ २१ ॥ स नागभटचन्द्रगुप्तनृपयोर्य शोर्यं
हार्यं धैर्यं विकलानथोन्मीलयत् । यशोर्जनपरो नृपान्स्वभुवि शालिसस्यानिव । पुनः पुनरतिष्ठिपत्स्वपद एव चान्यानपि ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org