________________
SANJANA PLATES OF AMOGHAY
ARSA I, SAKA SAMWAT 793. ॐ। स वोऽव्याद्वेघसा धाम यन्नाभिकमलं कृतम् ।
हरश्च यस्य कान्तेन्दुकलया कमलङकृतम् ॥ १ ॥ अनन्तभोगस्थितिरत्र पातु वः प्रतापशीलप्रभवोदयाचलः । सु- (शु-) राष्ट्रकूटोच्छ्रितपूर्ववंशज : स वीरनारायण एव यो विभुः ॥२॥ तदीयवीर्यायतयादवान्वये क्रमेण वा विव रत्नसञ्चयः । बभूव गोविन्दपतिर्भुवः प्रसाधनः (नो) पृच्छकराज- (नन्द)-नः ।। ३ ।। बभार यः कौस्तुभरत्नविस्फुरद्गभस्तिविस्तीर्णमुरुस्थलं ततः । प्रभातभानुप्रभवप्रभाततं हिरण्मयं मेरुरिवाभितस्तटम् ॥ ४॥ मनांसि य-(त्रा)-त् त्रासमयानि सन्ततं वचांसि यत्कीर्तिविकर्तनान्यपि । शिरांसि यत् पादनतानि वैरिणां यशांसि यत्तेजसि ने शुरन्यतः ॥ ५॥ धनुस्समुत्सारितभूभृता मही प्रसारिता येन पथुप्रभाविना । महौजसा वैरितमो निराकृतं प्रतापशीलेन स कर्कराप्रभुः ॥ ६ ॥ इन्द्राराजस्ततोऽगृहणाद् यश्चालुक्यनृपात्मजां। राक्षसेन विवाहेन रणे खेटकमण्डपे ॥ ७॥ ततोऽभवद्दन्तिघटाभिमर्दनो हिमाचलादास्थित सेतुसीमतः। खलीकृतोद्वत्तमहीपमण्डलः कुलाग्रणीर्यो भुवि दन्तिदुर्गराट् ॥ ८॥ हिरण्यगर्भ राजन्य रुज्जयन्यां यदासितं । प्रतिहारीकृतं येन गुर्जरेशादिराजकम् ॥ ९॥ स्वयंवरीभूतरणाङगणे ततः स नियंपेक्षं शुभतुङगवल्लभः । चकर्ष चालुक्यकुल-(श्री)-शि-(य)-यं (व) बलात् विलोलपालिध्वजमाणभारिणः ॥ १० अयोध्यसि-(भा)-हासन चामरोजित-(स्मि)-सित्रतातपत्रोऽप्रतिपक्ष राजभाक् । अकालवर्षों हतभूपराजको बभूव राज- (रिषि) -षिरशेषपुण्यकृत् ॥ ११ ।। ततः प्रभूतवर्षोभूत् धारावर्षस्ततः शरैः । 'धारावर्षायितं येन सङग्रामभुवि भूभुजा ॥ १२ ॥ युद्धेषु यस्य करवालनिकृत्तशत्रुमूर्धना-(ङ)-म् कवोष्णरुचिरासवपानम(तः)त्तः। आकण्ठपूर्णजठरः परितृप्तमृत्युः उद्गारयन्निव स काहलधीरनादः ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org