________________
(111) राजामात्यवराविव स्वहितकार्यालस्यनष्टो हठाद्दण्डेनैव नियम्य मूकबधिरावानीय हेलापुरे । लङकान्तः किल तत्प्रभु (:) प्रतिकृतो काञ्चीमुपेतौ ततः। कीर्तिस्तम्भनिभौ शिवायतनके ये नेह संस्थापितौ ॥ ३४ ॥ व्याप्ता कीर्तिस्त्रिलोकि निजभुवनभरं भर्तुमासीत्समर्थः पुत्रश्चास्माकमेकः सफलमिति कृतं जन्म धर्मैरनेकैः । कि कर्तुं स्थेयमस्मिन्निति विमलयशःपुण्यसोपानमार्ग स्वर्गप्रोत्तुङगसौध प्रति यदनुपम: कीर्तिमेवानुयातः ॥ ३५ ॥ बन्धूनां बन्धुराणामु चितनिजकुले पूर्वजानां प्रजानां । जातानां वल्लभानां भुवनभरितसत्कीर्तिमूर्तिस्थितानाम् । बात कीति सलोकां कलिकलुषमथो हन्तुमन्तो रिपूणां श्रीमान् सिंहासनस्थो बुधनुतचरितोऽमोघवर्षः प्रशास्ति ॥ ३६ ॥ त्रातुं नम्रान् विजेतुं रणशिसि परान् प्रार्थ केभ्यः प्रदातुं निर्योढं रूढिसत्यं धरणिपरिवढो नेदशोऽन्यः [समर्थः] । इत्थं प्रोत्थाय साथ पृथुरवपदढक्कादिमन्द्रप्रघोषो यस्येन्द्रस्येव नित्यं ध्वनति कलिमलध्वंसिनो मन्द्रिराग्रे ।। ३७ ॥ दृष्ट्वा तन्नवराज्यम् [जि] तबृहद्धर्मप्रभाव नपं भूयः षोडशराज्यवत्कृयुगप्रारम्भ इत्याकुल: । नश्यन्नन्तरनुप्रविश्य विषमो मायामयोऽसौ कलि: सामन्तान्सचिवान्स्वबान्धवजनानक्षोभयत्स्वीकृतान् ॥ ३८ ॥ शठमन्त्रं प्रविधाय कूटशपथरीश स्वतन्त्रा (:) न स्वयं विनिहत्योचितयुक्तकारिपुरुषान्स स्वयंग्राहिणः । परयोषिदुहिता स्वसेति न पुनर्भेद: पशूनामिव प्रभुरेवं कलिकाल (मि) इत्यवसितं सद्वृत्तमुधृतः ॥ ३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org