________________
१६१
कर्मयोगः ] .. अतिमिया जना मे ते, जैनधर्मप्रभावकाः । धर्मप्रवर्तकाचार्या, आप्नुवन्ति पदं मम ॥
१५७ भक्तानामपि ये भक्तास्तेषां हृदि वसाम्यहम् । युक्तिप्रयुक्तिभिर्धर्म-रक्षका मे महाप्रियाः ॥ १५८ मुक्ता भवन्ति ते शीध्र, मद्भक्तानां सहायकाः । सहायकाऽनुमन्तरो, मद्रूपा मत्पदाश्रिताः ॥ जैनधर्मसमो धर्मो, नैव भूतो भविष्यति। .. जैनधर्मस्य वृद्धयर्थ, कर्तव्यं कर्म सज्जनैः ॥ जैनधर्मोपदेष्टणां, मतुल्या पूज्यता सदा। मन्तव्या च प्रकव्या, जैनधर्मार्थसाधकैः ॥ राष्ट्रादिधर्मकर्माणि, कर्तव्यानि प्रयुक्तिभिः । जैनधर्मस्य रक्षार्थ, सदगुर्वाज्ञा विधीयताम् ॥ १६२ कलौ धर्मगुरूणां ये, सर्वाज्ञापालका जनाः। । मदाज्ञापालका बोध्या, वासो गुरुषु मे सदा ॥ १६३, बोद्धव्य आत्मसत्तातः, सर्वविश्वमयो गुरुः। अतः श्रद्धाबलेनैव, गुर्वाज्ञा परिपाल्यताम् ॥ १६४ धर्मप्रवर्तकाऽऽचार्याः, सेवनीया विशेषतः । मत्पश्चाज्जैनधर्मस्य, रक्षकाश्च प्रभावकाः ॥ किञ्चिद्भेदो न मन्तव्यो, मयि धर्मगुरुष्वपि । धर्माचारविचारेषु, तेषां नो प्रतिबद्धता। गच्छन्ति सर्वदेशेषु, धर्मिसंख्या वृद्धये । आर्याऽनार्यप्रदेशानां, कल्पना नैव वस्तुतः ॥ .. १६७ वसन्ति यत्र मद्भक्ता, धर्माचार्याः प्रवर्तकाः। आर्यता तत्र बोव्या , धर्मकर्मप्रभावतः ॥ १६८,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org