SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ૮ [ तृतीयाध्याये सर्वेषु भिन्नधर्मेषु, धर्मिषु च जिनेश्वरम् । धर्माचार्या विलोकन्ते, जैनधर्मस्य रक्षकाः ॥ मया सर्वज्ञवीरेण यत्प्रोक्तं नाऽन्यथा भवेत् । धर्मप्रवर्त्तका एवं ज्ञात्वा कुर्वन्ति सत्क्रियाम् ॥ लोकाह मनुजा नित्यं सत्ताशक्तिधनादिभिः । विद्याज्ञानादिभिः पूर्णाः, श्रेष्ठता धर्म्यमार्गिणाम् ॥ १४७ तो धर्मार्थभिधर्मरक्षार्थकोविदैः । सर्वथा धर्मशाखानां, रक्षा कार्या शुभङ्करा ॥ धर्मशाखा असंख्याता, जीवानां वृत्तिभेदतः । परस्पराविरोधिन्यः, सर्वसत्येषु सङ्गताः ॥ मोक्षमार्ग असंख्याता, ज्ञातव्याः कर्मयोगिभिः । परस्पराविरोधेन, रक्षितव्याः सनातनाः ॥ रहस्यं जैनधर्मस्य, सर्वज्ञोक्तं विभाव्य तत् । रक्षार्थ जैनधर्मस्य, कर्त्तव्यं स्वार्पणं सदा ॥ सर्वशु भोन्नतेः पश्चात्पतितव्यं न दुर्गुणैः । सर्वदा सर्वथा जैनैः, साध्या सर्वशु भोन्नतिः ॥ येन केन प्रकारेण, क्षेत्रकालानुसारिणा । योग्योपायेन संसाध्या, जैनधर्मप्रचारणा ॥ " रक्षा भवति लोकानां कृते सद्धर्मरक्षणे । यत्र धर्मो जयस्तत्र, धर्मः साध्यो जनैः सदा ॥ मर्मसाधकानां ये, पूर्णसाहाय्यकारकाः । शीघ्रं ते मत्पदं यान्ति, घोरपापिजना अपि ॥ मत्पूर्वाङ्गप्रकीर्णानां शास्त्राणां पूर्णरक्षकाः । अतिप्रिया जना देवा, देव्यश्च धर्मरक्षणात् ॥ " Jain Education International For Private & Personal Use Only १४५ १४६ १४८. १४९ .१५० १५१ १५२ १५३. १५४ १५६. १५६ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy