SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६० [ तृतीयाध्याये गायन्ति यत्र मां जैनास्तत्र वासोऽस्ति मामकः। सर्वथा तत्र पावित्र्यं, धर्मकर्मसमुद्भवम् ।। १६९ चक्रवादिभिः पूज्या, मद्धर्मस्य प्रवर्तकाः । मद्धर्मिदेषिलोकानां, विनिपातः सहस्रधा॥ १७० विद्यासत्ते सदा रक्ष्ये, मद्धर्मस्य प्रवर्तकैः। विद्यासत्तादिशक्तीनां, नाशका नैव मजनाः ॥ १७१ जैनसंघस्य रक्षार्थ, राज्यसत्तादिकं बलम् । युक्तिप्रयुक्ति भी रक्ष्यं, जैनैः स्वास्तित्वहेतवे ॥ १७२ सर्वशक्तिस्वरूपोऽयं, मद्धो येन धार्यते । मद्धाम प्राप्यते तेन, गृहस्थेन च साधुना ॥ रागद्वेषं तु धर्मार्थ, नैव बन्धाय जायते । अधर्म्यरागदोषाणां, त्यागाद्रागी भवेज्जनः ॥ .. १७४ सर्व ब्रह्मति मां मत्वा, रागिणः प्रभवन्ति ये। शुद्धब्रह्मपदं यान्ति, त्यागिनः कर्मयोगिनः॥ एते मद्धर्भवेत्तारो, गृहस्था अनगारिणः । धर्मरक्षां शुभं कृत्वा, भवन्ति शुद्धयोगिनः ॥ १७६ सर्वत्र सर्वकार्येषु, दृष्ट्वा मां प्रेमभक्तितः । कुर्वन्ति योग्बकर्माणि, मम धर्मप्रवर्तकाः ॥ १७७ मद्धर्माचार्यभक्तेषु, श्रद्धाभक्तिं भजन्ति ये । शक्त्याविर्भावरूपेण, तेषां मुक्ति दाभ्यहम् ॥ १७८ सर्वकार्येषु निर्दोषा, मम धर्मप्रवर्तकाः । मुश्चन्ति चैव गृहन्ति, धर्माचारान्विवेकतः॥ १७९ धर्माचारा अनित्याः स्युः, क्षेत्रकालाऽधिकारतः। तत्त्वधर्मः सदा नित्यो, जैना जानन्ति मन्मयाः ॥ १८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy