________________
कर्मयोगः ] अतस्ते धर्मरक्षार्थ, वर्तन्ते सर्वयुक्तिभिः । उत्सर्गेष्वषवादेषु, स्वतन्त्रा धर्मवर्त्तकाः॥ यदा धर्मस्य मालिन्यं, जैनसंघस्य हीनता। भविष्यति तदाचार्या, भविष्यन्ति महाबलाः ॥ १८२ आपद्धर्म समालम्ब्य, कलौ मद्धर्मरक्षणे । भविष्यन्ति समर्थास्ते, जैनधर्मप्रभावकाः ॥ १८३ विद्यासत्ताबलाचैः स्युजैना मद्धर्मरक्षकाः । ममाज्ञयोक्तकर्माणि, कुर्वन्ति धर्मयोगिनः ॥ १८४ जीविका धर्म्यकर्माणि, क्षेत्रकालाऽनुसारतः । कुर्वन्ति सर्वदेशीया, जैना इच्छादिसंयुताः ॥ १८५ धासक्ति समालम्ब्य, विद्याव्यापारकर्मसु । वत्तन्ते गृहिणो जैनाः, क्षात्रसेवादिकर्मसु ॥ ज्ञानिनो नैव लिप्यन्ते, मनोवाकायकर्मभिः। आसक्तिमन्तरा तानि, कुर्वन्ति स्वाऽधिकारतः ॥ १८७ निरासक्त्या तु कर्माणि, नैव बध्नन्ति योगिनः । काम्यभावस्य संत्यागात्कर्म कुर्वन्ति शक्तितः॥ मच्छासनस्य रक्षार्थ, धर्मरक्षकयोगिनाम् । कुर्वतां सर्वकार्याणि, कर्मबन्धो न जायते ॥ महावीरेति मां भक्त्या, भजन्तो धर्मरक्षकाः । धर्मप्रभावनां कृत्वा, यान्ति स्वर्गश्च मत्पदम् ॥ कलौ क्षात्रबलाचैर्मधर्मवृद्धिः प्रजायते । निर्वीर्या नैव जानन्ति, मदुक्तं धर्मरक्षणम् ॥ कषाया धर्मतां यान्ति, धर्मरक्षादिकर्मसु । सत्क्रोधादिबलात्स्वर्ग, यान्ति जैनाः कलौ गेयु ॥ १९२
१८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org