________________
[ तृतीयाध्याये कलौ धर्म्यकषायाँस्तु, धर्मकामार्थकर्मसु । मम भक्ताः प्रकुर्वन्ति, जैनाचार्यादयस्तथा ॥ कलौ धर्म्यकषायेण, धर्मा जीविष्यति क्षितौ । देवगुर्वादिषु प्रेम, मोक्षादिनापर्क मतम् ।। रागादिककषायैस्तु, कलौ मादर्भसेवकाः । धर्माचार्या भविष्यन्ति, मदाज्ञाधर्मरक्षकाः॥ धर्मप्रभावका येते, धर्थरागाश्रिताः सदा । स्वर्गे यान्ति कलौ भक्त्या, मद्रागे स्वर्गसिद्धयः॥ १९६ कलौ सरागधर्भस्य, साम्राज्यं सर्वधर्मिषु । वर्त्तते सर्वकार्येऽतो, वर्तितव्यं प्रयत्नतः ॥ कलौ मद्रागतश्चैव, धर्माचार्यस्य रागतः । जनाः पवित्रतां यान्ति, धर्मरक्षकभक्तितः ॥ जैनधर्मस्य रक्षायां, कार्य सर्वसमर्पणम् । जैनधर्मः सदा सेव्यो, धृत्वा मद्रचनं हृदि ॥ मदनुयायिजनानां, भक्तिमद्भक्तिरेव सा । मद्धर्माश्रितजैनानां, देषो मघातरूपकः ॥ मदाचार्याश्च मत्संघा, छेप्या नैव कदाचन । कलौ संघबलेनैव, वर्तते जैन शासनम् ॥ धर्मप्रचारका बोध्याः, पुरुषार्थपरायणाः । कर्मतोऽपि प्रयत्नस्य, महत्ता साध्यसाधनैः ।। आरंभाश्च समारंभा, जैनधर्मस्य वृद्धये । संघार्थ नैव दोषाय, धर्मिणां रक्षण तथा ॥ हिंसाऽपि धर्मतामेति, जैनधर्मस्थ रक्षणे । चतुर्विधस्य संघस्य, रक्षार्थ सर्वकर्मसु॥
२०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org