________________
कर्मयोगः ]" नैव पापप्रसंगोऽस्ति, कुरुध्वं कमशक्तितः। .. आजीविका प्रवृत्तौ तु, दोषाः सन्ति न बोधतः ॥ २०५ ज्ञात्वैवं जनसंघेन, सर्वधर्म्यप्रवृत्तिभिः । धर्मप्रभावना कार्या, संप्राप्य सर्वतो बलम् ॥ . २०६ सर्वजातिबलं प्राप्यं, कलौ जनैः प्रयत्नतः। . अन्यधार्मिकयुद्धेभ्यो, धर्मो रक्ष्यः सनातनः ॥ २०७ धर्भप्रभावका योगाः, कलौ ये वार्त्तमानिकाः । ते साध्याः सर्वसंवेन, धर्मरक्षाविवृद्धये ॥
२०८ गृहाश्रमो मया प्रोक्तः, कृतोऽपि स्वाऽधिकारतः। त्यागाश्रमो मयाऽऽरब्धो, छयोहिं धभकर्मता ॥ धर्मप्रभावको योगः, सर्वज्ञेन मया कृतः। . तीर्थङ्करेण विश्वस्य, कल्याणाय च बोधितः ॥ सर्ववर्णगृहस्थैश्च, त्यागिभिः स्वाऽधिकारतः । धर्मप्रभावनारक्षा-वृद्धिः कार्योन्नतिपदा ॥ लोकसंग्रहन्यायेन, पूर्णनिष्कामिना मया । आरब्धः कृतकृत्येन, कर्मयोगः सुखावहः ॥ महाजना गता यत्र, तत्राऽन्ये यान्ति मानवाः । इति विज्ञाय मद्भक्ताः, कर्म कुर्वन्ति निश्चितम् ॥ २१३ सर्वविश्वोपकाराय, कृतं सद्देशनादिकम् । अन्येषां तर्हि का वार्ता, धर्भवृद्धयादि कर्मसु ॥ २१४ परस्परोपकारित्वं, सर्वजातीयदेहिनाम् । त्यागिनां च गृहस्थानां, प्रजानां भूभुजां सदा ॥ २१५
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org