________________
[ तृतीयाध्याये सर्वेषामुपकारित्वं, वर्ततेऽनेकजन्मसु । विज्ञाय स्वोचितं कर्म, कर्त्तव्यं सर्वदेहिभिः॥ २१६ रक्षितो वर्द्रितो धर्मो, लोकान्रक्षति निश्चितम् । तस्मात्सर्वप्रकारेण, कार्य धर्मस्य रक्षणम् ॥ २१७ स्वाधिकारेण साध्यानि, धर्मकर्माणि यत्नतः । दृश्योऽहं पूर्णसद्ब्रह्म, सर्वत्र धर्मकर्मसु ॥ २१८ धर्मप्रभावना कार्या, सर्वस्वाऽर्पणयोगतः । धाचारविचारेषु, मां दृष्ट्वा पूर्णभक्तितः ॥ आविस्तिरो रहस्यानामानन्त्यं परिवर्त्तते । हर्षशोको न कर्तव्यो, सर्वकर्त्तव्यकर्मसु ॥ सर्वदा सर्वथोद्योगः, कर्त्तव्यः सर्वदेहिभिः। ... किमसाध्यं प्रयत्नेन, किं दुर्गम्यं सयोगिनाम् ॥ २२१ गुणिनः पुत्रशिष्या ये, दयाविनयसागराः। गाम्भीर्यप्रेमसंसक्ता, दातारः कर्मयोगिनः॥ आत्मसामर्थ्यविश्वासात् , कर्त्तव्यं कर्म सिद्धयति । आत्मसामर्थ्यविश्वासो, मोचनीयो न मानवैः ॥ २२३ अशक्यान्यपि कर्माणि, क्रियन्ते स्वात्मशक्तितः। आत्मश्रद्धां समालम्ब्य, वर्तध्वं भव्यमानवाः ॥ २२४ आत्मसामर्थ्यविश्वासो, विश्वजीवनजीवनम् । अतो जाग्रत भो भव्याः, कुरुध्वं कर्म यत्नतः ॥ आत्मसामर्थ्य विश्वास-प्रयत्नमन्तरा जनः । सर्वकर्तव्यकार्येषु, समर्थो नैव जायते ॥ २२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org