________________
५६
जैनधर्मस्य रक्षार्थमने के कर्मयोगिनः । निर्लेपा रक्षकाः सन्तो, भविष्यन्ति सदाशयाः ॥ प्राधान्यं कलिधर्मस्य, स्वीकृत्य धर्मरक्षणे । वर्त्तिष्यन्ते महात्मानः, परार्थस्वार्थ साधकाः ॥ धर्माssचारविचारेण, मद्रपा धर्मरक्षकाः । नरा नार्यो गृहस्थाच, त्यागिनो यान्ति मत्पदम् ॥ वेदागमप्रचारेण, जैनधर्मप्रचारकाः । महत्पूज्या नरा नार्यो, निर्दोषाः सर्वकर्मसु ॥ श्रेष्ठा धर्म्यप्रवृत्तिस्तु, कलौ निवृत्तितो मता । कलावंशोऽपि धर्मस्य, महान्सत्ययुगादितः ॥ कलावल्प सदाचारो मोक्षदो भाषितो मया । सर्वदेशीयजातीनां मद्भक्तानां गतिः शुभा ॥ hot मर्मरक्षार्थमापत्तिदुःखभागिनः । भविष्यन्ति नरा धन्याः, सत्वरं मोक्षगामिनः ॥ सत्याचारविचारेण, जैनधर्मः सनातनः । सर्ववेदान्तसारोऽस्ति, जैनधर्मः सदा महान् ॥ सर्ववेदस्वरूपोऽस्ति, जैनधर्मः सनातनः । अनाद्यनन्तरूपेण, सर्वधर्ममयः सदा ॥ जैनधर्मो महायज्ञः, सर्वयज्ञेषु भाषितः । जैनधर्मस्य सेवायां विश्वसेवा समागता । विश्व सेवास्वरूपोऽस्ति, जैनधर्मः सनातनः । राष्ट्रादिसर्वधर्माणां, रक्षकः सर्वशक्तिदः ॥ जैनधर्मे समावेशो, राष्ट्रादिधर्मकर्मणाम् । सत्याचारविचाराणां, पोषको दोषमोषकः ॥
Jain Education International
"
[ तृतीयाध्याये
For Private & Personal Use Only
१२१
१२२
१२३
१२४
१२५
१२६
१२७
१२८
१२९.
१३०
१३१
१३२
www.jainelibrary.org