________________
कर्मयोगः] कर्मयोगः सदा साध्यो, जैनधर्मपरायणैः । आवश्यकः सतां मान्यः, सर्वलोकस्य जीवनम् ॥ १०९ धर्मरक्षकयोगस्य, महत्ता सर्वतोऽधिका । कर्मयोगस्य तात्पर्य, धर्मरक्षककर्मसु ॥ अहं नारायणो विश्ववल्लभः पुरुषोत्तमः । मत्तो धर्मस्य रक्षाऽस्ति, मत्तुल्या धर्मिसूरयः ॥ रुद्रो महेश्वरः शंभुमहादेवः सदाशिवः । अनेकाकृतिनाम्नाऽहं, जैनेन्द्रो धर्मरक्षकः॥ ११२ आदिनाथो महाब्रह्मा, जगन्नाथोऽस्मि वस्तुतः। महाविष्णुः परब्रह्म, मत्तो नाऽन्योऽस्ति शक्तितः॥ ११३ मत्स्वरूपाः प्रबोद्धव्या, युगेषु धर्मरक्षकाः । धर्मप्रवर्तकाः श्रेष्ठास्तथा धर्मस्य रक्षकाः॥ . १ कलौ युगप्रधाना ये, धर्मरक्षकयोगिनः । धर्मप्रवर्त्तकाः सर्वे, मद्रूपा धर्ममूर्तयः॥ पश्चमारे महासत्त्वा, धर्माचार्याः शुभङ्कराः । कलिधर्मेण युक्तास्ते, मत्तुल्या धर्मरक्षकाः ॥ कलौ मद्धर्भयुक्तानां, धर्मरक्षकयोगिनाम् । भिन्नाऽऽचारविचारेषु, धर्मसापेक्षता मता ॥ विधिनिषेधो नैकान्तः, सूरीणां सर्वकर्मसु । कलिधर्माऽनुसारेण, वतिष्यन्ते ह्यपेक्षया ॥ देशकालानुसारेण, धर्ममार्गप्रवर्तकाः । अनेकोपाययोगेन, जैनशासनरक्षकाः ॥ कलौ श्रीसूरयोऽनेके, वय॑न्ति धर्मरक्षकाः। जैनधर्मस्य रक्षायां, दोषाः सन्ति न कर्पसु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org