________________
[सृतीयाध्याये कर्मवीरास्तथाऽन्ये ये, धर्मवीराः शुभराः । सर्वजातीयवीरेषु, मच्छक्तिर्व्यक्तितः शुभा ॥ गृहस्थास्त्यागिनो वीरा, धर्म्यकर्माणि युक्तितः । कुर्वन्तः पूर्णसत्प्रीत्या, मत्पदं यान्ति वेगतः ॥ ९८ सर्वजातीयवर्णेषु, मद्भक्ता मदुपाश्रिताः । सर्वजातीयकर्माणि, कुर्वन्तो यान्ति मत्पदम् ॥ त्रिगुणस्थितप्रद्भक्ता, धर्म्यकर्मपरायणाः । ब्राह्मणाः क्षत्रिया वैश्याः, शूद्रा गच्छन्ति मत्पदम् ॥ १०० सर्वजातीयशक्तीनां, धारकाः कर्मयोगिनः । जित्वाऽरीन्द्रव्यभावेन, जिनत्वं यान्ति वस्तुतः ॥ १०१ जिनत्वं यान्ति सज्जैनाः, सर्ववर्णीययोगिनः । स्वातन्त्र्यं यान्ति मद्भक्त्या, निर्दोषाः सर्वकर्मसु ॥ - १०२ सर्वजातिषु भव्याः स्युजैना वीर्यसमन्विताः । ज्ञानादिसदगुणैर्युक्ता, भवन्ति कर्मयोगिनः॥ अर्हन्तो वीतरागा ये, सर्वधर्मप्रवर्तकाः । -विश्वोद्धारं प्रकुर्वन्ति, प्रशस्यधर्मकर्मभिः ॥ सर्वदेहेषु मां दृष्ट्वा, सत्तातः कर्मयोगिनः । मद्भावं प्राप्य जैनास्ते, जिनत्वं यान्ति सत्वरम् ॥ १०५ सिद्धा भवन्ति ते बुद्धा, मद्रूपापन्नयोगिनः। गृहस्थास्त्यागिनो लोका, यान्ति मद्धाम वेगतः ॥ १०६ निर्दोषाः स्युः सदा जैना, धर्म्ययुद्धादिकर्मसु । सर्वकर्मसु निष्पापा, आपत्कालेषु मां श्रिताः ॥ धर्मदेशसमाजस्य, यानि कर्माणि तानि वै । कर्तव्यानि विशेषेण, सज्जैनैः कर्मयोगिभिः ॥ १०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org