________________
कर्मयोगः ] नास्तिका मोहसंमूढा, नैव ते कर्मयोगिनः । येषां चित्ते न मद्भक्तिः, क्रियावन्तोऽपि निर्बलाः ॥ सर्वजीवेषु सत्तातो, वीरत्वं मत्समं स्थितम् । विज्ञाय सर्वकर्माणि, कुर्वन्ति कर्मयोगिनः॥ महाऽवताररूपास्ते, भक्तितो मयि संस्थिताः । विश्वोद्धाराय जायन्ते, धर्माचार्याः प्रभावकाः ॥ मत्प्रचारितधर्मस्य, मत्पश्चात्ते प्रवर्तकाः । धर्मापत्तिप्रसङ्गेषु, जायन्ते धर्मनोदिताः॥ .. धर्मतः पतितव्यं न, कर्मयोगपरायणैः । प्रमादादात्मशक्तीनां, हासो भवति योगिनाम् ॥ अप्रमत्ता महाभक्ता, धर्म्यकर्मपरायणाः । सर्वशक्तिसमाजेन, धीश्रीयुक्ता भवन्ति ते ॥ भ्रष्टता न कदा सेव्या, स्वाश्रयाश्रितकर्मणाम् । गृहस्थैस्त्यागिभिश्चैवं, ज्ञातव्यं सुविवेकतः ॥ स्वाऽधिकारवशाद्धर्मो, निश्चयव्यवहारतः। . स्वस्वकर्त्तव्यकार्याणां, लागे पापं भवेन्नृणाम् ॥ यावदगृहस्थितिस्तावदगृहकर्माऽधिकारता । यावत्यागदशा तावत्यागिकर्माऽधिकारता ॥ गृहस्थैर्गुहिधर्मेभ्यस्त्यागिभिरत्यागकर्मतः । भ्रष्टता न कदा धार्या, ममा वं जनान्प्रति ॥ मयि श्रद्धालवो भक्ताः, पुरुषार्थपरायणाः । मत्सत्तापूर्णवेत्तारस्ते स्युर्धर्माऽधिकारिणः ॥ ९५. मद्भक्ता ब्राह्मणाः सन्तः, क्षत्रिया धर्मरक्षकाः। वैश्याः शदास्तथाऽन्येऽपि, भक्तिशक्तिप्रसाधकाः ॥ ९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org