________________
.५२
"
"
कल्याणं सर्वजीवानां कुर्वन्तः कर्मयोगिनः । - ऊर्ध्वं गच्छन्ति सत्त्वस्थाः, सर्वपापविनाशकाः ॥ जीवान्स्वात्मसमान मत्वा, वैषम्यं परिहृत्य ये । सुष्ठु कर्माणि कुर्वन्ति तेषां शान्तिं ददाम्यहम् ॥ शुभार्थी कर्म कुर्वन्ति, सदाचाररता जनाः । पुण्यकर्माणि कुर्वन्ति, काम्यवृत्तिवियोगिनः ॥ विश्वोद्वाराय ये नित्यं कर्म कुर्वन्ति योगिनः । साध्यलक्ष्योपयोगेन, निर्दोषाः सर्वकर्मसु ॥ अनासक्त्या प्रकुर्वन्ति, सर्वकर्माणि योगिनः । अनासक्ताः शिवं यान्ति, धर्म्यकर्मपरायणाः ॥ सर्वतीर्थङ्करैरुक्तः, सेवाधर्मः सनातनः । मयाऽपि सर्वजीवानां कल्याणार्थ प्रबोधितः ॥ शुभेच्छयाऽपि संसेव्यः, कर्मयोगः सुखप्रदः । शुभेच्छातः कृतं कर्म, पुण्यबन्धाय जायते ॥ स्वर्गलोकं जना यान्ति, शुभेच्छाकर्मकारकाः । शुभाशुभं मनस्त्यक्त्वा, मुक्ता भवन्ति योगिनः ॥ सर्ववाञ्छाविनिर्मुक्तं मनः कृत्वा विवेकिनः । मद्रूपं संस्मरन्तस्ते, सज्जन्ते नैव कर्मसु ॥ मदाराधन सद्भक्ता, जायन्ते शक्तिसंयुताः । तेषां पराजयो नास्ति, सर्वत्र सर्वकर्मभिः ॥ युगप्रधानाः सूर्याचा, मद्धर्मस्य प्रचारकाः । प्रकाशयन्ति मच्छक्ति, सेव्या मत्तुल्यभक्तितः ॥ मोहिनो नैव मद्भक्ताः, स्वार्थवृत्तिपरायणाः । मत्स्वरूपं न जानन्ति, कुर्वन्ति पापबन्धनम् ॥
"
Jain Education International
[ तृतीयाध्याये
For Private & Personal Use Only
७३
७४
७५
७६
66
७८
७९
८०
८१
८२
८३
८४
www.jainelibrary.org