________________
कर्मयोगः ] कर्मभ्यो नैव भेतव्यं, मद्भक्तैः कर्मयोगिभिः । येषां चित्तेष्वहं वीरस्तत्र मोहस्य किं बलम् ॥ कायिकादिवलं रक्ष्य, ब्रह्मचर्यादिसदव्रतैः। सर्वशक्तिप्रकाशार्थ, कर्त्तव्यं कर्म मानवैः ॥ शक्तिमन्तोऽनुजीवन्ति, रक्षन्ति सदबलान्यपि । धर्मसंघस्य रक्षार्थ, समर्थाः कर्मयोगिनः॥ मान्याः पूज्याः सदा सेव्याः, शक्तिमन्तो महाशयाः । सर्वजातीयधर्माणां, रक्षकाः कर्मयोगिनः ॥ मद्भक्तैः सर्वदा साध्या, बहिरन्तः स्वशक्तयः । आन्तरशक्तिरक्षार्थ, समर्था बाह्यशक्तयः ॥ आत्मशक्तिप्रकाशार्थ, कर्मयोगस्य मुख्यता। कर्मयोगो महाधर्मो, वस्तुतो व्यवहारतः ॥ अनवृत्तितः सर्व-कर्त्तव्यकर्मकारकाः।। सत्यवराथिनः सन्तो, जयन्ति कर्मयोगिनः ॥ आत्मशुद्धिप्रकाशार्थ, योगिना यविधीयते । परार्थ तत्प्रबोद्धव्यं, गताः स्वार्थाः परार्थताम् ॥ सत्त्वशुद्धिप्रकाशेन, ब्रह्मार्थ कर्मसङ्गतिः । ब्रह्मणि ब्रह्मणा सम्यक्, कर्मतो ब्रह्म दृश्यते ॥ ब्रह्मदर्शी महायोगी, ब्रह्मवर्ती क्रियापरः । कर्मणि ब्रह्मभावेन, वर्तते कर्मयोगिराट् ॥ पोषकः सर्वशक्तीनां, कर्मयोगः शुभङ्करः। ज्ञानयोगी स्वयं भूत्वा, भव्यः कर्म समाचरेत् ॥ भक्तितः कर्मयोगस्य, श्रेष्ठता सार्वकालिका । सर्वजातीयजीवानां, सेवायां स्वर्गसिद्वयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org