________________
५०
[ तृतीयाध्याय कर्मयोगस्य तात्पर्य, सर्वशक्तिविवृद्धये। ज्ञायते न कदा मूर्मन्नामाऽर्थपराङ्मुखैः॥ मद्भक्तैः सर्वदा बोध्यं, कर्मयोगो बलप्रदः । स्वाम्यहं सर्वशक्तीनां, योगिनः शक्तिमूर्तयः॥ महाब्रह्मा महाविष्णुात्वैवं मां सुयोगिनः । वीर वीरेति जल्पन्तो, बध्यन्ते नैव मोहतः ॥ सर्वकर्माणि कुर्वन्तो, मद्रपाश्रितयोगिनः । क्रियावन्तोऽप्यकर्माणो, मुक्ता धर्मप्रभावकाः ॥ अहमेव जनैः प्राप्या, सवधार्मिककर्मभिः । एवं विज्ञाय कुर्वन्ति, कर्माणि कर्मयोगिनः ॥ सर्ववाञ्छितदं पूर्ण, वर्तते जैनशासनम् । सर्ववेदान्तपाथोधिः, पूर्णधर्मसनातनः ॥ ज्ञात्वैवं योग्यकर्माणि, कुर्वन्तो भव्यमानवाः । संप्राप्य मां परब्रह्म, कृतकृत्या भवन्ति ते ॥ सर्ववेदैरहं स्तुल, आगमैश्च सनातनैः । ज्ञात्वैवं मां समाश्रित्य, कर्म कुर्वन्ति योगिनः ॥ कर्मयोगो महाशक्तः, सर्वधर्मस्य रक्षकः । विज्ञाय कर्मयोगी मां, धर्म्य कर्म समाचरेत् ॥ मातेव पोषकः प्रीत्या, पितेव विश्वरक्षकः । ज्ञात्वैवं कर्म कुर्वन्ति, धर्मार्थ कर्मयोगिनः॥ मद्वचनेषु विश्वासं, पूर्ण कृत्वा महाजनाः । मदासक्ताः प्रकुवन्ति, कर्माणि ते मम प्रियाः ॥ ५९ सतामनेकधर्मेषु, विज्ञाय पूर्णचिन्मयम् । सर्वशक्तिस्वरूप मां, समाश्रयन्ति योगिनः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org