________________
३७
कर्मयोगः] धर्मार्थकाममोक्षार्थ, यतन्ते कर्मयोगिनः। स्वाऽधिकारं न मुञ्चन्ति, शुभेच्छादि क्रमेण ते ॥ सर्वजातीयशक्तीनां, प्राप्त्यर्थ कर्मयोगिनः। स्वधर्म मन्यमानास्ते, यतन्ते स्वाऽधिकारतः ॥ यत्र यत्र महाशक्तिस्तत्र तत्र वसाम्यहम् । सर्वशक्तिस्वरूपं मां, जानन्ति कर्मयोगिनः ॥ ज्ञानादिसर्वशक्तीनामाविर्भावो यतो भवेत् । सर्वविश्वोपकारार्थ, कर्मयोगः स कथ्यते ॥ स्वाऽधिकारोऽस्ति कर्तव्ये, निष्कामस्य महात्मनः । सर्वकर्माणि कुर्वन्स, न करोति न मुत्यति ॥ यत्र भानुस्तमस्तत्र, न तिष्ठति कदाचन । यत्र निष्कामता तत्र, निर्लेपत्वं स्वकर्मसु ॥ विना मोहेन सर्वत्र, ज्ञानेन कर्मयोगिनः । निर्लेपाः कर्म कुर्वन्ति, पद्मपर्णमिवाम्भसा ॥ प्रवृत्तिः सर्वशक्तीनां प्राप्यते कर्मयोगिभिः । विनाम्बां पुत्रवच्छक्तिः, प्रवृत्तिमन्तरा तथा ॥ प्रवृत्तिमन्तरा धर्मविवृद्धिर्जायते कथम् । प्रवृत्तियैस्तु संलक्ता, तैस्त्यक्ता आत्मभूतयः॥ सर्वधर्मस्य रक्षार्थ, प्रवृत्तिः सर्ववीयदा। देवतावत्सदाराध्या, कलायुक्तिविचक्षणैः ॥ मद्धर्मस्य विवृद्धयर्थ, रक्षार्थ कर्मयोगिभिः । मद्भक्तैर्धर्मकर्माणि, कत्तव्यानि विशेषतः॥ बाह्यान्तरा सदा साध्या, वीरता विश्वरक्षिणी। अहं वीर्यात्मना लभ्यो, निर्बलैन कदाचन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org