SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ " , परब्रह्मणि संलीनो, जीवन्मुक्तोऽभिधीयते । वैदेहः कृतकृत्योऽपि, योग्यकर्म समाचरेत् ॥ सर्वेषां कर्मकर्तॄणां स्वस्य कर्मानुसारतः । फलं शुभाशुभं बोध्यं योगिनां ब्रह्मशुद्धता ॥ देहिभिर्यत्कृतं कर्म, यद्यद्भावाच्छुभाशुभम् । तत्तत्कर्म फलत्येव, जीवानां सुखदुःखकृत् ॥ निरासक्त्या कृतं कर्म, निर्जरार्थ प्रजायते । निष्कामं च सकामं, तद्यथा वृत्तिस्तथा भवेत् । आत्मज्ञानस्य पाकाय, ज्ञान्यपि स्वाऽधिकारतः । करोति धकर्माणि, निर्लेपत्वपरीक्षकः ॥ मयि न्यस्य स्वकर्माणि मद्रयं स्वं परीक्ष्य च । स्वं जेता सर्ववृत्तीनां ज्ञात्वा कर्म समाचरेत् ॥ सर्वकर्त्तव्य सत्कायैः प्राप्योऽहं कर्मयोगिभिः । मदुपदेशात्प्राप्तव्यं प्राप्यते ज्ञानयोगिभिः ॥ मनोधर्ममपाकृत्य, ब्रह्मरूपेण धीमता । योग्यं तद्विधातव्यं, दोषोऽस्ति नैव योगिनः ॥ परोपकारकार्यार्थ, दोषाः सन्ति न योगिनाम् । सर्वकार्यसमारम्भे, निर्दोषाः कर्मयोगिनः ॥ वित्तदारादिसंयोगे, निर्मोहाः कर्मयोगिनः । सर्वसङ्गेषु निःसङ्गा, ज्ञानिनः कर्मयोगिनः ॥ ब्रह्माग्नौ सर्वकर्माणि, हुयन्ते ज्ञानयोगिभिः । परब्रह्मस्वरूपास्ते, स्वतन्त्राः सर्वकर्मसु ॥ लेप्यवृत्तिषु निर्लेपा, अध्यात्मज्ञानयोगिनः । मुद्यन्ति न कदा केषु, योग्यकर्त्तव्यकारकाः ॥ Jain Education International " [ तृतीयाध्याये For Private & Personal Use Only २५ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy