________________
कर्मयोग: ]
प्रवृत्तिमन्तरा शक्तिः, कुत्राऽपि नोपपद्यते । प्रवृत्तिमन्तरा कार्य, साध्यते नैव योगिभिः ॥ प्रवृत्त्या दृश्यते सत्या, ज्ञानयोगस्य पक्वता । ब्रह्मरसपरीक्षार्थ, कर्माणि कुरुत स्वतः ॥ परब्रह्मरसास्वादो, भुज्यते सर्वकर्मसु । ज्ञानेन ब्रह्मयोगेन सर्वत्र ब्रह्मदर्शिना ॥ काम्यभावस्य संत्यागं कृत्वा कर्म समाचरेत् । सर्वार्थ स्वार्पणं कृत्वा, परब्रह्मपदं भजेत् ॥ स्वयं ब्रह्मस्वरूपोऽस्ति, स्वस्मिन्स्वेन समर्पणम् । कृत्वा ब्रह्ममयं सर्वे, दृष्ट्वा कर्म समाचरेत् ॥ स्वाऽधिकारवशात्प्राप्त - सर्वकार्यस्य सिद्धये । ब्रह्मरसस्य भोक्ताऽपि प्रवृत्तिं कुरुते शुभाम् ॥ सर्वजातीयधर्माणां प्रवृत्तिर्जीवनप्रदा । ज्ञात्वैवं धर्मवृद्धधर्थ, प्रवृत्तिः साध्यते जनैः ॥ विश्वं ब्रह्ममयं मत्वा दृष्ट्वा सर्वत्र मां प्रभुम् । विश्वादिपञ्चयज्ञानां कर्म कुर्वन्ति योगिनः ॥ सर्वयज्ञस्वरूपं मां, मत्वा निर्लेपवृत्तितः । दृष्ट्वा ब्रह्ममयं कर्म कुर्वन्ति ज्ञानिनः सदा ॥ सर्वजीवस्वरूपोऽहं यज्ञो विष्णुर्जिनेश्वरः । ब्रह्मयज्ञोऽस्मि मत्वैवं, कर्त्तव्यं कर्म सज्जनैः ॥ मयि यज्ञाः प्रवर्त्तन्ते, सब मद्भावमाश्रिताः । यज्ञस्वरूपमहन्तं, मां यान्ति कर्मयोगिनः ॥ केवलज्ञानरूपं मां, ज्ञात्वा प्रवृत्तिमाचरेत् । सर्वत्र सर्वकार्येषु, निर्लेपं स्वं विचारयेत् ॥ नाहङ्कारस्वरूपं स्वं ज्ञात्वा निर्भयतां भजन् । पूर्ण विश्वस्य भोक्तापि कर्मणा नैच लिप्यते ॥
"
Jain Education International
"
For Private & Personal Use Only
१२
१३.
१४
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
www.jainelibrary.org