________________
तृतीयाध्याये कर्मयोगः
भक्तियोगं निशम्याथ, पमच्छुगैतिमादयः । भगवन् सर्वथासिद्धिर्येन स्यात्सन्निवेद्यताम् ॥ श्रीवीरः प्रोचिवान्कर्मयोगं प्रवृत्तिलक्षणम् । यस्याराधनतो लोका, ब्रजन्ति परमं पदम् ॥ प्रवृत्तिलक्षणो धर्मः, सर्वधर्मोपकारकः । मद्भक्तैः सर्वदा सैव्यो, निवृत्तिकांक्षियोगिभिः ॥ प्रवृत्तिः सर्वभूतानां निवृत्तेरुपकारिका । प्रवृत्तिमन्तरा भक्तिः, कदापि नैव साध्यते ॥ प्रवृत्तिलक्षणो बोध्यः, कर्मयोगसुखप्रदः । निर्लेपत्वं समादाय, सेवितव्यो मनीषिभिः ॥ वीर्य विना च सोधं, कर्मयोगो न साध्यते । संसाध्यते महाधर्मः, शरैर्मिलेपयोगिभिः ॥ प्रवृत्तिधर्मगर्भेऽस्ति, निवृत्तिरवला स्थिरा । निवृत्तिधर्मरक्षार्थ, प्रवृत्तिधर्मकारणम् ॥ निष्क्रियो न भवेद्देही पूर्णनिवृत्तिमन्तरा । प्रवृत्तिपरिपक्वानां, निवृत्तिर्जायतेऽचला ॥ न जायते स्थिरा प्रज्ञा, प्रवृत्तियोगमन्तरा । अतो धर्मप्रवृत्त्यर्थ, यतितव्धं मनीषिभिः ॥ ज्ञानयोगं समासाथ, प्रवृत्तिः स्वाऽधिकारिका । क्षेत्रकालानुसारेण, साध्यते कर्मयोगिभिः ॥ व्यक्तधर्मः प्रवृत्तिस्तु, व्यक्तशक्तिस्वरूपिका । सर्वप्राणिप्रगत्यर्थ, क्रियते कर्मयोगिभिः ॥
Jain Education International
For Private & Personal Use Only
१
፡
१०
११
www.jainelibrary.org