________________
प्रेमयोगः ] आर्यानार्यास्तथा देवाः, पशुपक्ष्यादिदेहिनः। लयलीना मयि प्रीत्या, मद्राष्टारोऽतिवेगतः ॥ धनैर्नैव प्रमोदेऽहं, न च वस्त्रादिभूषणैः। सर्वजीवदयादानैः, प्रमोदेऽहं स्वभावतः ॥
४३१ सव विश्वं मयि द्रष्टा, सर्वविश्वेषु मांस्तथा । स्वस्मिन्विश्वञ्च मां द्रष्टा, मद्रूपः स महाप्रभुः ॥ मत्तदैक्थं स्वभावेन, सिद्धात्मभावतः स्वयम् । । मत्तत्प्रभावभेदोऽपि, नैव किश्चित्कदाचन ॥ वनस्पत्यादिजीवेषु, मत्स्वरूपं विभावयन् । ध्याता सर्वत्र सत्प्रीत्या, मां पश्यति सुखालयम् ॥ ४३४ मां दृष्ट्वा मत्प्रभावञ्च, पूर्णानन्दो भवेजनः । सर्वजीवदयालुः स, मत्समो जायते सदा ॥ ४३५ सात्त्विकाहरभोक्ता मां, प्राप्नोति शुद्धमानसः । मल्लीनो राजयोगाथैर्मा स पश्यति वस्तुतः॥ ४३६ भूत्वा ये मत्स्वरूपास्ते, मदाराधनकारकाः। सर्वकर्त्तव्यकर्माणि, कर्त्तारो मयि संस्थिताः ॥ सर्वजातीयमज्जैनै नसाम्राज्यदर्शिकाः। चन्द्रसूर्याङ्किता धार्या, ध्वजाश्चैत्यादिके शुभाः॥ ४३८ जैनसाम्राज्यशोभार्थ, मङ्गलार्थश्च भावतः। सर्वशुभप्रसङ्गेषु, धार्या जैनध्वजा जनैः ।। सर्वत्र सर्वदा जैन, शासनं विश्वशान्तिदम् । आचन्द्रार्क जनै य, जयशीलं पताकया ॥ इति श्रीजैनमहावीरगीतायां श्रीप्रेमयोगनामको
द्वितीयोऽध्यायः समाप्तः
४४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org