SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ४४ [ द्वितीयाध्याये सर्वेषु रसभेदेषु, शुद्धानन्दरसोऽस्म्यहम् । रसेष्वन्येषु मां प्राप्य, मुह्यन्ति नैव मजनाः ॥ ४१८ अन्यरसान्निवर्तन्ते, शुद्धब्रह्मरसप्रियाः। पूर्णानन्दरसं मां ये, जानन्ति ते विदांवशः ॥ शुद्धप्रेमरसं ब्रह्म, जानन्ति ब्रह्मयोगिनः । माहात्म्यं मम विज्ञाय, नाऽन्यमिच्छन्ति मां विना ॥ ४२० चक्रवत्तिसुरेन्द्राणां, भोगेषु नैव मोहिनः। मामन्तरा तु निःसारं, विश्वं मानन्ति मजनाः ॥ ४२१ सर्वकर्तव्यकर्माणि, कारोऽपि मनीषिणः । मच्चित्ता मत्स्वरूपास्ते मन्महिमप्रगायकाः ॥ अनन्तमहिमाधारं, मां जानन्ति मनीषिणः । मुह्यन्ति नैव मोहेन, सिद्धा बुद्धा भवन्ति ते ॥ ४२३ राज्यसत्तादिभी राज्ञां, धनाढयानाञ्च वित्ततः। विद्याभिनैव लभ्योऽहं, लभ्योऽहं शुद्धचेतसाम् ॥ ४२४ मन्त्रतन्त्रैर्महायन्त्रैर्लभ्योऽहं नैव योगिनाम् । सर्वप्राणियु मद्भावधारकाणां हृदि स्थितः ॥ ४२५ सर्वजीवस्वरूपं मां, मत्वा सर्वस्य पूजकः । मत्कृपापात्रभूतः स, मदन्यं नैव वाञ्छति ॥ ४२६ मत्सर्वेषु जीवेषु, शुद्धप्रेमपरायणाः । मन्माहात्म्य हृदि ज्ञात्वा, भवन्ति मन्मया जनाः ॥ ४२७ प्राचीनतनैः सर्वधर्मशास्त्रैर्मनीषिणः।। लभन्ते मां न संमूढाः, क्रूराश्च दोषदर्शिनः ॥ ४२८ मत्प्रभावं विजानन्ति, केवलं मत्परायणाः । मल्लीनाः शुद्धरागेण, बाला मूर्खाश्च पण्डिताः॥ ४२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy