SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ खेमयोगः ] त्यागिनां हृदि वासो मे, मदेकप्रेमधारिणाम् । शङ्काशीला न जानन्ति मन्माहात्म्यं कुतर्किणः ॥ चन्द्रसूर्याग्निवायूनां संस्थितिर्मत्प्रभावतः । प्रत्यक्षो मे प्रभावोऽरित, सुखदुःखादिदर्शनात् ॥ ४०७ मत्प्रभावस्य वेत्तारो, भक्ता मे प्रीतिधारकाः । , दृश्यादृश्येषु सारं मां, ज्ञात्वा यान्ति स्थिरं पदम् ॥ ४०८ सर्वविश्वपदार्थेषु, परमात्मा सदोत्तमः । परमेष्ठी परब्रह्म, वीतरागोऽस्मि तत्त्वविद् ॥ मदाश्रितानां जीवानां परमात्मपदमदः । अशरण्यशरण्योऽहं त्राता भ्राता च देहिनाम् ॥ रक्षकः सर्वजीवानां, वत्सलोऽस्मि प्रियङ्करः । कालस्याऽपि महाकालः, चक्षुर्दः सर्वदेहिनाम् ॥ यद्यद्वृत्त्या भजन्ते मां तत्तद्वृत्त्यनुसारतः । शुभाशुभं फलं जीवाः प्राप्नुवन्ति न संशयः ॥ अन्तकाले भजन्ते ये, भक्ता मां भक्तिभावतः । तेषामुद्धारकर्ताsहं, पश्चात्तापविधायिनाम् || सर्वशु भोत्तमध्येयं, मां ज्ञात्वा ध्यानयोगतः । ध्यायन्ति मन्मयीभूताः, सिद्धात्मानो भवन्ति ते ॥ ४१४ ध्येयरूपं परब्रह्म, येषां ध्याने स्वभावतः । केवलिनो भवेयुस्तेऽयोनिश्च सयोगिनः ॥ मयि लीना महाभक्ताः परप्रेमात्मतानतः । जीवन्मुक्ता भवन्त्येव, महासन्तः शरीरिणः । देहेष्वपि वसन्तस्ते, जीवानां वाञ्छितार्थदाः । अकल्याणकर्त्तारो, मदेकभावधारकाः ॥ Jain Education International " For Private & Personal Use Only કર ४०६ ४०९ ४१० ४११ ४१२ ४१३ ४१५ ४१६ ४१७ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy