________________
-
३९४
[द्वितीवाभ्याने चतुर्मुखो महाब्रह्मा, महारुद्रो जिनेश्वरः। महाऽर्हन् सर्वविविष्णु-रनन्तब्रह्मरूपवान् ॥ मत्तो धर्माः प्रकाशन्ते, मयि यान्ति लयश्च ते । ओतप्रोता मयि व्यक्ताः, पर्यायाश्च गुणास्तथा ॥ ३९५ मोहादिकर्मणां पूर्ण-नाशकः स्वीयशक्तितः। महाज्योतिः स्वरूपोऽह-मसंख्यातप्रदेशवान् ॥ सदसदादिधर्माणा-मनन्तानामहं निधिः । मत्तोऽन्यः सजीवानां, शास्ता नास्ति जगत्त्रये ॥ ३९७ एकोऽहं द्रव्यरूपेण, पर्यायेणाऽस्म्यनेकधा । एकाऽनेकस्वरूपेण, लक्ष्योऽहं सर्वकोविदः ॥ ३९८ मत्स्वरूपं विजानन्ति, मद्भक्तत्यागिसाधवः । मद्भक्तत्यागिनामग्रे, प्रत्यक्षोऽहं स्वभावतः ॥ अत्यद्भुतं स्वरूपं मे, मुख्यन्ति तत्र मोहिनः । शाब्दिकैस्तार्किकैर्वादै-रलभ्योऽहं निरञ्जनः ॥ तर्कबुद्धया न गम्योऽहं, गम्योऽहं पूर्णरागतः। सर्वजीवेषु मां पश्यन्, मदृष्टया सोऽस्ति मन्मयः॥ ४०१ माहात्म्धं मे न जानन्ति, नास्तिका मोहयुद्धयः। वित्तादिषु ममत्वेन, रागद्वेषादिकारकाः ॥ मत्साधूनामवज्ञादि, कुर्वन्तो दुष्टबुद्धयः । मां भजन्तोऽपि मद्रूपं, जानन्ति न निराश्रयाः ॥ ४०३ ये तु मिथ्यात्वमोहेन, मद्धर्मद्वेषकारकाः। तेषां शान्तिः कदा नैव, यान्ति दुःस्वञ्च दुर्गतिम् ॥ ४०४ यादृशास्तादृशाः पूज्याः, साधवो मे महाप्रियाः। मत्साधुप्रतिपक्षाणां लभ्योऽहं नैव वस्तुतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org