________________
३८२
प्रेमयोगः असंख्यदृष्टिभिर्लोकः, सर्वशास्त्रविचारतः। ज्ञायते न स्वरूपं मेऽनन्तज्ञानादिसंयुतम् ॥ मत्तः सो लयश्चैव, पर्यायाणां प्रतिक्षणम् । मदायत्तं जगत्सर्व, ज्ञाने ज्ञेयस्वभावतः ॥ ब्रह्माविष्णुमहेशाद्याः, सर्वजातीयदेवताः। मां श्रयन्ति स्वभावेन, चन्द्रार्का अन्यखेचराः ॥ ३८४ मत्पारं न कदा यान्ति, ज्ञानिनस्तत्त्वपारगाः । मद्ध्यातारोऽपि येऽशेन, मां जानन्ति न सर्वथा ॥ ३८५ यान्ति घोरं महाश्वभ्रं, मद्धर्मस्य विघातकाः । जैनानां प्रतिपक्षा ये, शत्रवो मे स्वकर्मभिः॥ ३८६ अन्यायद्रोहकर्तारः, पच्यन्ते पापकर्मभिः । पुण्यपापाऽनुसारेण, सुखं दुःखश्च देहिनाम् ।। ३८७ अनन्तधर्मस्रष्टाऽहं, सर्वविश्वनियामकः । निर्लेपो वीतरागोऽस्मि, सर्वसाक्षी सनातनः ॥ ३८८ मद्भासा सूर्यचन्द्राद्याः, प्रकाशन्ते महीतलम् । सर्वयोगेश्वरं साक्षाद्यो मां वेत्ति स मजनः ॥ बाह्यान्तरमहिम्नाऽहं, सर्वलक्षणलक्षितः। चमत्कारा अनन्ता मे, दृष्टा मद्भक्तिभाजनैः ॥ धर्माऽधर्मादिवस्तूनां, पूर्णद्रष्टा महेश्वरः । जीवाऽजीवादितत्त्वानां, विज्ञाताऽहं प्रकाशकः ॥ ३९१ इन्द्राद्या लोकपालास्तु, प्रवर्तन्ते मदाज्ञया । सुरासुरनरेन्द्राद्या, मां भजन्ति विवेकतः ॥ ब्राह्मणादिप्रजाः सर्वा, यजन्ते मां दिवानिशम् । यज्ञरूपो जिनेन्द्रोऽहं, सर्वविश्वस्य शासकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org