________________
[द्वितीयाध्याये अष्टकर्माऽन्विता येऽपि, सद्भक्ता मयि संश्रिताः । अन्तर्मुहूर्तमात्रेण, केवलिनो भवन्ति ते ॥ शुद्धब्रह्मणि संलीना, मदभिन्नाः शरीरिणः । जीवन्मुक्ता महासन्तो, मत्तुल्याः कर्मकारकाः ॥ ३७२ सर्वथा भक्तिभेदानां, धारका भक्तयोगिनः । क्रियावन्तोऽक्रियावन्तो, गच्छन्त्यूर्व शिवालयम् ॥ ३७३ येन केन प्रकारेण, मदुपासकयोगिनः । मद्भक्ता मत्पदं यान्ति, बाह्यचेष्टाविलक्षणाः॥ ममाऽनेक स्वरूपेषु, पश्यन्त एकमेव माम् । मद्भक्ता नैव मुह्यन्ति, धर्मभेदेषु मोहतः ॥ भिन्नेषु धर्मशास्त्रेषु, विरुद्धाचारकर्मसु । अविरोधे पश्यन्ति, मद्पं ज्ञानयोगिनः ॥ ३७६ एकाऽनेकस्वरुपं मां, पश्यन्ति स व्यपेक्षया । शुद्ध मरताः सन्तः, प्रारब्ध-कर्मभोगिनः ॥ मद्दर्शनस्य कर्त्तारो, भावाऽभावेषु सर्वथा । मद्धतिनो महाभक्ता, मद्रपा नाऽन्यथा कदा ॥ ३७८ सर्वजातीयकार्येषु, सर्वाऽवस्थासु भक्तितः । मत्स्था महर्तिनो भक्ता, जीवन्मुक्ताः सदा मताः ॥ ३७९ सर्ववृत्तिषु मदूपं, पश्यन्तो भक्तियोगिनः । चिदानन्दमयाः पूर्णा, भवन्ति स्वात्मरुपतः ॥ सर्वजातीय-भक्तीनां, भोक्ता ब्रह्म सनातनः । सर्वजातीय सेवासु, ब्रह्मैव सर्वथाऽस्म्यहम् ॥
३८१ असंख्यदृष्टिभिर्लोकः, सर्वशास्त्र-विचारतः । ज्ञायते न स्वरुपं मेऽनन्तज्ञानादिसंयुतम् ॥ ३८२
३८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org