________________
प्रेमयोगः ]
"
यद्यद्भावेन मां लोका, भजन्तेऽनेकमार्गगाः । तत्तद्भावेन लोकानां, फलदः स्वात्मयोगतः ॥ असंख्य देवदेवीनां भिन्नोपासनया जनाः । संयान्ति मां यजन्तस्ते, ब्रह्मवर्त्मानुवर्त्तिनः ॥ भिन्नभिन्नाऽभिधानैस्तु, फलदो वृत्तिभेदतः । सर्वेष्वहं सदा बोध्यस्तदाज्ञा नैव जानते ॥ येन केनाऽभिधानेन, वाच्योऽहं ब्रह्मरूपतः । सर्वनामस्वरूपेषु, परब्रह्मास्मि शक्तितः ॥ मदुपासनया भवता, मत्स्वरूपा न चाऽन्यथा । स्वर्गसिद्धिमदस्तेषां भक्तिशक्तिस्वरूपतः ॥ मदुपासनकर्माणि कर्त्तव्यानि विशेषतः । सर्व ब्रह्मेति मां ज्ञात्वा, मन्निष्ठां कुरुत स्वतः ॥ सर्वशक्तिस्वरूपं मां, ज्ञात्वा शक्तिप्रवर्त्तकाः । मद्रूपं हृदि संधृत्य, शाक्तरूपा भवन्ति ते ॥ वाचा प्रेममयी पूर्णा, मनः प्रेममयं सदा । वपुः प्रेमादितं यस्य स मे भक्त उपासकः ॥ मां स्मृत्वा च गुरुं स्मृत्वा द्वयों क्यं विभाव्य तत् । मद्भक्ताः प्रेमसंलीना, रोमराजिविकस्वराः ॥ व्यक्तेऽव्यक्ते च मद्रपे, ध्यानाऽऽसक्तिवतां सदा । शान्तिं तुष्टिं महापुष्टिं मङ्गलं च ददाम्यहम् ॥ मयि विश्वासिनः सन्तो, दुःखकोहिसमाकुलाः । मद्रुपोपासकास्तेषां पूर्णशक्तिं ददाम्यहम् ॥ दुःखेन परिपक्वानां मद्भक्तानामहं प्रियः । चलन्ति नैव दुःखेऽपि, भक्तिसंस्कार वासिताः ॥
Jain Education International
For Private & Personal Use Only
३९
३५९
३६०
३६१
३६२
३६३
३६४
३६५
३६६
३६७
३६८
३६९
३७०
www.jainelibrary.org