________________
३८
[द्वितीयाध्याये वीरवीरेति संस्मृत्य, तिर्योऽपि दिवं गताः । अन्यदेवास्तथा देव्यो, मन्नामस्मृतिसंश्रिताः ॥ महाब्रह्मा महाविष्णुर्महाज्योतिरहं सदा । दिक्पालाश्च ग्रहाः सर्वे, मन्नामस्मृतिकारकाः ३४८ यावन्ति विश्वपापानि, तावन्ति मम नामतः । प्रणश्यन्ति ततोऽन्यानि, नैव पापानि भूतले ॥ मन्त्रोपासनकर्माणि, गुरुगम्यानि वस्तुतः । सदगुरोः कृपया सिद्धिर्जायते पुण्यदेहिनाम् ॥ सर्वकार्येषु भन्मन्त्रसाहाय्यं भव्यदेहिनाम् । जायते पूर्णविश्वासादाधिकं किं वदाम्यहम् ॥ ३५१ वर्द्धमाना महाविद्या, सर्वशक्तिप्रदायिका। ऋद्धिसिद्धिपदा पूर्णा, मद्धर्मस्य प्रभाविका ॥ ३५२ यक्षिण्यः सर्वयक्षाश्च, मद्धर्मस्य प्रभावकाः । रोहिण्यादिमहादेव्यो, मद्धर्मस्य प्रभाविकाः ।। सरिमन्त्री महाश्रेष्ठः, सर्वमन्त्रशिरोमणिः । आचार्जप्यते प्रातः, सर्वशक्तिप्रदायकः ॥ सर्वरक्षकमन्त्रेषु, सूरिमन्त्रस्य मुख्यता। मत्स्वरुपञ्च तं ज्ञात्वा, ध्यायन्ति सूरयः सदा ॥ वासः श्रीसूरिमन्त्रेण, मन्यते सूरिभिः शुभः । वासन्यासं प्रकुर्वन्ति, प्रतिष्ठादिषु सूरयः ॥ ३५६ मन्नाम्नि सर्वमन्त्राणां, समावेशो भवेच्छुभे । पूर्णश्रद्धाबलेनैव, जापः कार्यों मनीषिभिः ॥ ३५७ सर्वाणि मन्त्रबीजानि, मन्नामाक्षरब्रह्मणि । ज्ञात्वैवं पूर्णसत्पीत्या, भवत मदुपासकाः ॥ ३५८
३५३
३५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org