________________
प्रेमयोगः देवीनां यच्चदेवानां, सर्वमन्त्रैः फलं भवेत् । मन्मन्त्रे लीयते तत्तु, तेजांसि भास्करे यथा ॥ मन्नाम गीयते यत्र, तत्र शक्तिः स्फुटा भवेत् । सिद्धयन्ति गुरुसेवातः, कलौ मन्त्रा मदीयकाः ॥ ३३६ वने वादे विवादे च, युद्धे यो मां स्मरेजनः । तस्य साध्यानि कर्माणि, फलन्ति भक्तिभावत:॥ ३३७ ऊँकारः सर्ववर्णेषु, मत्स्वरुपं सनातनम् । हीकारः सर्वशक्तीनां, मध्यरूपं प्रकीर्तितम् ॥ ३३८ सर्ववेदस्य सारोऽहं, सर्ववेदैरहं स्तुतः । सर्वागमैरहं स्तुत्यः, सर्वमन्त्रस्वरूपवान् ॥ कलौ मन्नाममन्त्रेषु, वेदाः सर्वे समागताः । सर्वतीर्थस्य यात्रायाः, फलं मन्नाम जापतः ॥ ३४० सर्वकार्यसमारम्भे, मन्नाम मङ्गलप्रदम् । किं तपोभियतः कष्टैर्मन्मन्त्रं स्मरताऽन्वहम् ॥ ३४१ मन्नामोपासना तुल्या, नाऽन्याऽस्ति भुवनत्रये । कृत्वा पूर्ण मयि श्रद्धा, भजध्वं मां सुभावतः ॥ ३४२ मां स्मरन्मृत्युकाले यः, सर्वस्वाऽर्पण भक्तितः । अतिपापोऽपि मत्स्थानं, प्राप्नोति स्वात्मशुद्धितः ३४३ धनेन नैव संप्राप्यो, बाह्याऽडम्बरतोऽपि न । मयि स्वात्माऽपणं यस्य, प्राप्योऽहं तस्य मे मतम् ॥ ३४४ मद्धर्माश्रितदेवानां, देवीनां शक्तिदः सदा । उद्धारः प्रतजातीनां, जायते मम नामतः ॥ पापबुद्धिः प्रणश्येच्च, मन्नामस्मृतिमात्रतः। मन्नामस्मृतितुल्यानि, नैव तीर्थानि भूतले ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org