________________
[ द्वितीयाध्याये आत्मरुपं जगत्पश्यन् , भक्तो भवति मत्समः। आत्मवत्सर्वविश्वस्य, श्रेयाकर्मपरायणः ॥ देवमन्त्रं गुरोमन्त्रं, यः स्मरेद्भक्तिभावतः । तस्य दुःखानि नश्यन्ति, किमसाध्यं हि भक्तितः॥ ३२४ यादृशी यस्य सद्भक्तिस्तस्य शक्ति हि तादृशी। मद्भक्त्यां शक्तिसंवासो, दृश्यते ज्ञानचक्षुषा ॥ ३२५ चैत्रशुक्लत्रयोदश्यां, मन्मन्त्राराधनं वरम् । तथा दीपालिकारात्रौ, सर्वकामार्थसाधकम् ॥ ३२६ मन्नाम्नः कोटिशो जापादुद्धारः पापिनां तथा। भूतादीनां समुद्धारो, मन्नामत्रवणादिभिः ॥ प्रान्ते मन्मन्त्रसंजापाच्छ्रवणास्कृति योगतः। अनेकभवकर्मभ्यो, मुच्यन्ते भक्तिकारकाः ॥ ३२८ भूताद्या अपि मन्नामश्रवणाद्यान्ति शान्तताम् । यक्ष्यादीनाञ्च मन्नामस्मरणात्पुण्य संगतिः ॥ मचरित्रभुतेर्योगात् , स्वाध्याय-ध्यानयोगतः । याता यान्ति च यास्यन्ति, स्वर्ग सिद्धिश्च मजनाः ॥ ३३० वनस्पत्यादयो जीवा, नाममन्त्र-प्रभावतः। उच्चत्वं यान्ति शक्तिञ्च, जनास्तहि न यान्ति किम् ॥ ३३१ इत्येवं मम मन्त्राँस्तु संख्यातीतान्निबोधत । श्रद्धाप्रेमवतां शीघ्रं, फलन्ति गुरुभक्तितः ॥ ३३२ कलौ भक्तिर्महाश्रेष्ठा, परेभ्योऽपि महाफला । अल्पाऽप्यनल्पधर्मार्थ, ततः श्रेष्ठाऽस्त्युपासना ॥ ३३३ मन्मन्त्रैः सर्वकार्याणि, सिद्धयन्ति स्वल्पयत्नतः । मद्रागिदेवदेवीनां, मन्त्रषु शक्तिदोऽस्म्यहम् ॥ ३३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org