________________
प्रेमयोग ] जैनधर्मसमालम्बादभ्रूणघातादिकारकाः। नास्तिका घोरकर्माणः, शीघ्रं संयान्ति मत्पदम् ॥ ३११ मत्पश्चात्सर्वलोकानां, जैनधर्मोऽस्ति तारकः । जैनधर्मस्य भेदेषु, मद्भक्तिः सर्वतोऽधिका ॥ दशधा नवधा भक्तिस्तत्त्वतो मे सनातना । मद्भक्तिसहशो धर्मो, न भूतो न भविष्यति ॥ ३१३ मया विश्वस्वरूपाणि, दर्शितानि मदात्मनाम् । सर्वज्ञोऽहं महावीरोऽन्तिमस्तीर्थेश्वरः प्रभुः ॥ तमस्ताथश्वरः प्रभुः॥
३१४ इति ज्ञात्वा भजन्ते मां, ते जना मुक्तिगामिनः । जीवानां भक्तिवश्योऽस्मि, जाने सर्वमनांस्यहम् ॥ ३१५ भक्तिरेव महाधर्मो, जैनधर्म-प्रचारणात् । नूनं भवति लोकानां, मोहादि कर्मनाशकः ॥ ३१६ अतो मद्भक्तिरेकाऽपि, प्रबला सर्वधर्मतः । सन्तः संयान्ति मत्स्थानमेकं मन्नामजापतः ॥ विभिन्ना नैव मद्पात्सर्वे तीर्थङ्कराः कदा । देशकालाऽनुसारेण, धर्मतीर्थविधायिनः॥ ३१८ सर्वाऽतिशयसंयुक्तं, मां भजन्तो जना भुवि । सर्वशक्तिसमूह ते, प्राप्नुवन्ति न संशयः ॥ अन्यायिदुष्टलोकेभ्यो, मद्भक्तानां प्ररक्षणम् । करोमि गुप्तशक्त्याऽहं, तेषां शान्ति-प्रकाशनात् ॥ ३२० सर्वभव्यजनैः सर्वाः शङ्कास्त्यक्त्वा सुभावतः । कृत्वा मां शरणं भक्त्या, भवितव्यञ्च मन्मयम् ॥ ३२१ आत्मरुपं जगद्यस्य, जातं भक्ति-प्रभावतः । तदात्मा परमात्मैव, विश्वकल्याण-कारकः ॥ ३२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org