________________
३४
[ द्वितीयाध्यायो अनन्तानन्तविश्वेषु, संपूर्णसर्वशक्तिमान् । परिपूर्णपरब्रह्म, महावीरोऽस्मि तीर्थकृत् ॥ अनन्तानन्तशक्तीनां, ज्ञानादीनां निवासता। ममैकस्मिन्प्रदेशेऽस्ति, तदने बिन्दुवजगत् ॥ अनन्तानन्त-विश्वानां, करोमि तोलनं क्षणात् । ज्ञानादिसर्वशक्तीनां, पारो न प्राप्यते जनैः ॥ वर्णकर्माऽनुसारेण, वर्तन्ते सर्वजातयः । मद्धर्मारधनाद्भक्ताः, सर्वप्रगतिसाधकाः ॥ ३०२ सर्वशक्ति समाधाय, संभवामि जगदगुरुः । मद्भक्तिपरिपक्वानां, समुद्धार करोम्यहम् ॥ ३०३ मद्भक्तिभ्रष्ट लोकानां, विनिपातः सहस्रधा । जायते मोहतः शीघ्र, मदुक्तं नाऽन्यथा भवेत् ॥ ३०४ दोषा अपि गुणायन्ते, मद्भक्तानां विशेषत:। कषाया अपि धर्मार्थ, रक्षार्थ धर्ममार्गिणाम् ॥ यादर्श तादृशं कर्म, कुर्वन्तो मत्परायणाः । पापेन नैव लिप्यन्ते, मद्भक्ताः कर्मयोगिनः ॥ याहशस्तादृशो देही, मद्रागी भक्तशेखरः । देवानामपि सन्मान्यो, निर्भयः कालभीतितः ॥ ३०७ सदगुरुप्रेमसद्भक्त्या, याहशस्तादृशो जनः । परब्रह्म प्रभुं प्राप्य, जीवन्मुक्तो भवेद्भवे ॥ बालानां ज्ञानिलोकानां, सर्वेषां मुक्तिकारकः । विश्वधर्मनियन्ताऽहं, महावीरो जिनेश्वरः ॥ अदाश्रितविनेयानां, स्वर्ग-मुक्ति-सुखं भवेत् । तारिता नाऽन्यदेवैर्ये, तेषां सद्योऽस्मि तारकः ॥ ३१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org